Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
६६
श्री पल्ली पालवंशीय धनपालविरचितः
यथेच्छं परिपृच्छैनां येनाहमपि निर्वृतेः । स्वरूपमवगच्छामि निशाम्यन्ती वचांसि वाम् ॥५५॥ अथावोचमहं काञ्चीराजपुत्रि ! न राजति । उक्तिरज्ञातमचित्तवृत्या देव्या सहाय मे ॥ ५६॥ अवश्यं संस्तुतस्योक्तमितरोऽपि करोति न | निसर्गतोऽपि निःस्नेहो जनः किं पुनरीश्वरः ||५७|| तदत्रभवती जातु प्रस्थिता ज्योतिषां पैथा । दक्षिणाशावतंसेषु विहर्तुं मैलयादिषु ॥ ५८ ॥ इष्टकावतारादि नमस्याऽलङ्करिष्यति । अयोध्यां तदा सर्व सम्प्रयेऽहं यथामति ॥ ५९ ॥ पुनर्दर्शनमेवैकं वक्तुं साधु ममाधुना । इत्युक्ते सा स्वमस्मार्षीत् प्रागप्रागल्भ्यवल्गितम् ||६० || त्रपयैवाक्षमाssस्थातुमुत्थाय सहसाऽथ सा । मठाप्रभुवमारोहत् खेचरीभिः परिष्कृतौ ॥ ६१ ॥ मयि क्षिप्तेक्षणा तत्र सा कुर्वाणा प्रतिक्षणम् । ससीत्कृतं शीतैमणिस्तम्भेषु परिरम्भणम् ॥ ६२॥ समुद्गिरन्ती शृङ्गारकाव्यानि श्रव्यभाषया । ताम्बूलं बन्धुबालानां क्षिपन्ती स्वमुखान्मुखे ॥६३॥ धम्मिलं दोलतोल्लासप्रकाशकुचमण्डला । कन्दुकक्रीडने श्रान्तमश्रस्तमपि बध्नती ॥६४॥ स्थित्वा चिरमथोपेता पुनर्मलयसुन्दरी । नान्यवृद्धावबुद्धा च सा चचाल निजालयम् ॥ ६५ ॥ कियदप्यनुगम्यैतां द्रागेत्य द्रविडेन्द्रजाम् ।
ऊचे वेत्रभृदायें ! त्वां देवी विज्ञापयत्यदः ॥ ६६ ॥ कुमारेण सहागत्य गृहाननुगृहाण मा [म् ] | साऽवोचन्नोचितमिदं मन्दुरे ! वनवासिनाम् ||६७|| अतिध्याय कुमारस्तु यात्वेवं विससर्ज ताम् । सखी मृगाङ्कलेखाख्या समागत्याऽगदत् ततः ॥ ६८ ॥
१ न्या । २ । ३ स । ४ स्कु । ५ ताः । ६ त । ७ स्रौ । ८द्र ।
Jain Education International 2010_05
For Private & Personal Use Only
[ प्र०
www.jainelibrary.org

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146