Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 132
________________ तिलकमजरोसारः । भवत्योर्भविताऽभीष्टसङ्गमः क्रमशस्तयोः । धर्माप्तिरेककालं तु दिव्यालङ्कारदर्शनात् ॥११७॥ इति 'श्रुत्वैकशृङ्गाद्रौ कल्पद्रुपरिवेषिणा । दिव्येन जिनहर्येण पावनाभ्यन्तरावनिम् ॥११८॥ मनोरमाख्यमारामं निर्माप्याश्रयमात्मनः । प्रियङ्गुसुन्दरी तस्थौ प्रियागमसमुत्सुका ॥११९॥ प्रियंवदाऽप्यथाऽऽधाप्य रत्नकूटनगोपरि । जिनालयं रत्नमयं स्वप्रियस्पृहया स्थिता ॥१२०॥ आयान्तीमन्यदा नन्दीश्वरादिषु विहारिणीम् । प्रियङ्गुसुन्दरी देवीमपश्यत् कमलासनाम् ॥१२१॥ अग्रतो धृतयानां तां गच्छदग्रपरिच्छदाम् । यियासुमेव सा वीक्ष्य रुषाऽभाषत किं सखि ! ॥१२२॥ नेहोत्तरसि किं स्नेहोऽधुना मयि तवापि न । श्रीः स्माह वेश्मनोऽहानि निर्गताया बहूनि मे (1) ॥१२३॥ वचो मे तदिहस्थायाः श्रुणु प्रातः प्रियंवदा । विषण्णा रत्नकूटाद्रौ मया दृष्टा सखी तव ॥१२४॥ सा प्रसौद गृहाणेदमातिथ्यं समयोचितम् । इत्युदीर्य ममाङ्गुल्यां स्वाङ्गुलीयकमक्षिपत्* ॥१२५॥ तया तवेति सन्दिष्टमभाग्यैर्मेऽयथाकृतम् । सर्वज्ञस्यापि वाक्यं यन्नायाद् भ्राता भवत्पतेः ॥१२६॥ क्षीणमायुश्च मे जन्मान्तरे 'तन्में स्मरिष्यसि । मत्कारिते सनाथत्वं चैत्ये कारयितासि चे ॥१२७॥ श्रुत्वेति साऽपि सोद्वेगाऽथोचे सखि ! सनाथताम् । अस्मिन् कतिपयाहस्तु कर्ता मत्कीर्तनेऽपि + कः ॥१२८॥ कं चार्थये गतः कालः स यत्राज्ञाकराः सुराः । ममासन्नथ तदुःखदुःखिता श्रीरभाषत ॥१२९॥ आ । २ तोस्थो। * This important point is not mentioned everl in the original prose-romance, viz, the TM. ३ ०एत । १ मा । ५ व।६। सास्वाथा । ७ न । + =temple. ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146