Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 121
________________ श्रीपल्लीपालवंशीयधनपालविरचितः विभाव्य तत्प्रभावेन यानस्तम्भं तमभ्यधाम् । किं महात्मन् ! लतापाणिः सरणिं संरुणत्सि मे ॥१३७|| यदौषधिबलेनास्मि काञ्चीपतिसुतामिमाम् । द्रुतमस्तविषावेगां विधित्सुर्गन्तुमुत्सुकः ॥१३८॥ इत्युक्तोऽपि यदाऽध्यानं स नामुश्चत् तदाऽवदम् । दिव्योऽसि वपुषा करकर्मणा नारको भवान् ॥१३९॥ कोपारुणेक्षणः सोऽपि प्रोचे रे ! खेचराधम ! । वशिष्टधर्मवमस्थं दुःखितप्राणिवत्सलम् ॥१४॥ आदिष्टं दुष्टशिक्षार्थ स्वामिन्याऽस्मिन् जिनालये । महोदराख्यं यक्षेशमधिक्षिपसि मामपि ॥१४१॥ प्राच्यं वा सुकृतं कस्य मुखेन ख्यापयामि ते । या पश्चशैलचैत्यस्य सालाग्रात् पतिताऽम्बुधौ ॥१४२॥ अन्तरालान्मया नीता सौधे सेयमचेतना । तिलकान्तहृतामेतां हृता मे प्रेयसीति यः ॥१४३॥ मन्वानोऽम्बुनिधौ क्षिप्तवपुरुत्क्षिप्तनौस्थितः । कुमारः प्रापितः स्कन्धावारं सोऽपि न सन्निधौ ॥१४४॥ तदुराचार ! रे ! क्रूरकर्माऽहं न पुनर्भवान् ! । वर्त्म विस्तीर्णमभ्यणं यो विहाय विहायसः ॥१४५॥ गीर्वाणसिद्धविद्याभृद्वन्धस्यायजिनेशितुः । दिव्यायतनमुल्लङ्घय यानस्थो यातुमिच्छसि ॥१४६॥ हता हताश ! ते साऽद्य विद्या गगनगामिनी । कर्ताऽसि पक्षविक्षेपाद् यदि त्वं चैत्यलङ्घनम् ॥१४॥ स्वदेहमस्मत्स्वामिन्या न प्रसादं विनाऽऽस्यसि । इत्युक्त्वा मुक्तहुङ्कारोऽक्षिपद् यानं सरोवरे ॥१४८॥ मग्नोन्मग्ने च तत्रैले स्वं शुकत्वमुपागतम् । संशोच्याऽथ निजावस्थां तदाऽवस्थां जिनालये ॥१४९॥ इष्टस्यावाचयल्लेखं यथा काञ्चीपतेः सुता । देव्या चैत्यं यथा नीता स्थापिता च यथा मठे ।।१५०॥ १श । २ ना । ३ क्षिच । १ शकु । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146