Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
तिलकमजरीसारः।
आर्ये ! खलु विचार्येदं बहिर्देवी प्रतीक्षते । ब्रूते तावन्नो यामि यावन्नो जामिरागता ॥६९॥ तन्निर्बन्धमिमं मत्वाऽचलन्मलयसुन्दरी । स्मित्वा मृगाङ्कलेखा मां करे धृत्वोदतिष्ठिपत् ॥७०॥ अनयच्चान्तिकं देव्याः साऽपि विस्फारितेक्षणा । मामभीक्ष्णं तया वीक्ष्य कृष्यमाणं कृतस्मिता ॥७॥ आरुह्य गजमादिश्य मत्समीपे परिच्छदम् । समं मलयसुन्दर्या ययौ निजनिकेतनम् ॥७२॥ अगमं तद्विमानस्थो नगरं रथनूपुरम् । मृगाङ्कलेखानर्मोक्तिविस्मितोऽहमपि क्षणात् ॥७३॥ तदीयरम्यताविष्टलोचनाकृष्टमानसः । मृगाङ्कलेखया पृष्टः पुरं दृष्टमिदं त्वया ॥७॥ भद्रे ! तदपि किं दृष्टमुच्यते यन्न वीक्ष्यते । आरक्षालक्षितेः प्रत्युदेशमित्यभ्यधामहम् ॥७५।। साऽथ द्विपघटाघण्टाटङ्कारमुखराध्वना । वाममन्तःपुरावानं गत्वा निजमवातरत् ॥७६।। तत्रोत्तीर्णस्य मे स्वर्णपर्यङ्कमधितस्थुषः । पादशौचमसौ चक्रे स्वयं कुङ्कुमवारिणा ॥७॥ समर्पितश्रेक्ताम्बूला तत्सखीसन्निधिं ययौ । सा तु मातुर्गुहं गत्वाऽदर्शयद् द्रविडेन्द्रजाम् ॥७८॥ स्वयमेत्य निजां चित्रशालां द्वित्रसखीयुता । मार्गागमश्रमव्याजादादिष्टशिशिरक्रिया :॥७९॥ दिक्षुर्मामुपाविक्षद् गवाक्षे दक्षिणेतरे । वीक्ष्य चालक्षैविक्षेपैनॆत्रैश्विरमवातरत् ॥८॥ तं गवाक्षमवेक्ष्याहं लोलाक्ष्या वियुतं तया । तान्तस्तद्विरहेणान्तःपुरोपवनमवजम् ॥८१।। तत्र मामभ्यधादेत्य द्वाःस्था हरिणिकाभिधा ।
कुमार ! विज्ञापयति त्वामिदं भर्तृदारिका ॥८२॥ १ सक् । २ त् । ३ श्य ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146