Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 96
________________ ५] तिलकमञ्जरीसारः । कथमप्यत्र सम्प्राप्तः प्रवेष्टुं जिनवेश्मनि । अपुण्यैर्दुःप्रवेशेऽस्मिंस्तव चित्तवदिच्छेति ॥ १२१ ॥ तदादिश किमप्यस्याऽवतारपथशंसने । वेश्या वसन्तसेनाऽथ मयादिष्टाऽभ्यदादिदम् ॥ १२२ ॥ अद्यैव नक्तमेषा नः केनाप्यानायि नायिका | भद्र ! वैदिकः सर्वो राजकन्याजनोऽप्यसौ ॥ १२३॥ इदं रूपमिवैतस्य कुमारस्याति सुन्दरम् । अपूर्व चैत्यमेतस्याः शंसत्येतत्पथं कथम् ॥ १२४॥ ततस्तमूचे निर्यामः स्थितं देवस्य दर्शनम् । अपूर्वं बहु दृष्टं च तद् यामः शिबिरं प्रति ॥ १२५ ॥ सोऽपि मत्सन्निधित्यागकातरस्तमभाषत । सखे ! बलवदस्वास्थ्यं शरीरे मम सम्प्रति ॥ १२६ ॥ तदत्र चन्दनप्रायपादपच्छायशीतले । समीहा मे क्षणं स्थातुं तथापि त्वं प्रमाणभूः ॥१२७॥ जगदे तेन यद्येवं गम्यतेऽवश्यमस्य हि । व्याधेर्वात ज्वरस्येव शैत्यं सन्तर्पणं परम् ॥ १२८॥ इति प्रेरितनौके च तस्मिन् तं प्रोषितस्मितम् । मदाननपतीक्षणं वीक्ष्येदमूचुषी ॥ १२९ ॥ वसन्तसेने कृत्वाऽपि प्रार्थनामकृतार्थकः । यात्येष राजपुत्रस्तत् किञ्चिदुक्त्वा स्थिरीकुरु ॥ १३० ॥ यावदेवगृहादेति कोऽपि मार्गोपदेशकः । मालिन्यमन्यथाऽस्माकमित्युक्ता साऽवदत् पुनः ॥१३१॥ निर्याम ! स्वामिनोsस्वास्थ्यं मत्वाऽपि चलितोऽसि किम् । किश्च न प्रेक्षसे क्षोभादम्भोधेस्तरां तरीम् ॥१३२॥ तोत्र देवतामेतां स्थिरीकृत्य प्रसादय । स्फुटीभवदभीष्टार्थप्राथना संस्तवैः स्तवैः ॥१३३॥ आयें ! साधूक्तमित्युक्त्वा सोऽपि नावं न्यवत्तयत् । हस्यमानो ममालीभिः प्राञ्जलिस्तां जजल्प च ॥१३४॥ १ दित्सच्छति । Jain Education International 2010_05 For Private & Personal Use Only ४७ www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146