________________
५]
तिलकमञ्जरीसारः ।
कथमप्यत्र सम्प्राप्तः प्रवेष्टुं जिनवेश्मनि । अपुण्यैर्दुःप्रवेशेऽस्मिंस्तव चित्तवदिच्छेति ॥ १२१ ॥ तदादिश किमप्यस्याऽवतारपथशंसने । वेश्या वसन्तसेनाऽथ मयादिष्टाऽभ्यदादिदम् ॥ १२२ ॥ अद्यैव नक्तमेषा नः केनाप्यानायि नायिका | भद्र ! वैदिकः सर्वो राजकन्याजनोऽप्यसौ ॥ १२३॥ इदं रूपमिवैतस्य कुमारस्याति सुन्दरम् ।
अपूर्व चैत्यमेतस्याः शंसत्येतत्पथं कथम् ॥ १२४॥ ततस्तमूचे निर्यामः स्थितं देवस्य दर्शनम् । अपूर्वं बहु दृष्टं च तद् यामः शिबिरं प्रति ॥ १२५ ॥ सोऽपि मत्सन्निधित्यागकातरस्तमभाषत ।
सखे ! बलवदस्वास्थ्यं शरीरे मम सम्प्रति ॥ १२६ ॥ तदत्र चन्दनप्रायपादपच्छायशीतले ।
समीहा मे क्षणं स्थातुं तथापि त्वं प्रमाणभूः ॥१२७॥ जगदे तेन यद्येवं गम्यतेऽवश्यमस्य हि । व्याधेर्वात ज्वरस्येव शैत्यं सन्तर्पणं परम् ॥ १२८॥ इति प्रेरितनौके च तस्मिन् तं प्रोषितस्मितम् । मदाननपतीक्षणं वीक्ष्येदमूचुषी ॥ १२९ ॥ वसन्तसेने कृत्वाऽपि प्रार्थनामकृतार्थकः । यात्येष राजपुत्रस्तत् किञ्चिदुक्त्वा स्थिरीकुरु ॥ १३० ॥ यावदेवगृहादेति कोऽपि मार्गोपदेशकः ।
मालिन्यमन्यथाऽस्माकमित्युक्ता साऽवदत् पुनः ॥१३१॥ निर्याम ! स्वामिनोsस्वास्थ्यं मत्वाऽपि चलितोऽसि किम् । किश्च न प्रेक्षसे क्षोभादम्भोधेस्तरां तरीम् ॥१३२॥ तोत्र देवतामेतां स्थिरीकृत्य प्रसादय । स्फुटीभवदभीष्टार्थप्राथना संस्तवैः स्तवैः ॥१३३॥ आयें ! साधूक्तमित्युक्त्वा सोऽपि नावं न्यवत्तयत् । हस्यमानो ममालीभिः प्राञ्जलिस्तां जजल्प च ॥१३४॥
१ दित्सच्छति ।
Jain Education International 2010_05
For Private & Personal Use Only
४७
www.jainelibrary.org