________________
[प्र०
श्रीपल्लीपालवंशीयधनपालविरचितः देवि' स्थिरा सकर्णा सत्पुरुषोद्वहनोचिता । पात्रं च त्वमिति ज्ञात्वा जनो विज्ञपयत्ययम् ॥१३५॥ मसौ मदवशाद् भूरिविभ्रमान् वहमानया । त्वयैवास्वास्थ्यमानीतः स्वामिनि ! स्वामिनन्दनः ॥१३६॥ तदस्मादेनमुच्चापमीनध्वज विजृम्भितात् । अनुकूलं चलन्ती त्वं परं संरक्षितुं क्षमा ॥१३७।। नीता तरलतां गाढां तरङ्गालीभिरुत्पत । माऽम्बरे माऽबुधौ मज्ज मा च गच्छ दिगन्तरम् ॥१३८॥ प्रस्थिता परमुद्वेगावर्तेऽमुं पातयिष्यसि । आत्मनाऽपि [च] कन्दर्पपीडिता निपतिष्यसि ॥१३९॥ प्रेरिता गुरुभिर्वातैर्निपतिष्यसि मूर्द्धनि । जराजर्जरदन्तस्य कस्यापि प्रान्तभूभृतः ॥१४०॥ तन्मा भज द्विधाभावं स्वयंवरपथं श्रय । अक्षुण्णेन पथा नाथमेनं मानिनि ! मानय ॥१४१॥ भूत्वा राजोन्मुखी राजपोतप्रणयिनी भव । यद्वा किं बहुनोक्तेन कुरु स्वमहिमोचितम् ॥१४२॥ इत्युक्त्वाऽकारयत् तेन प्रणामं स बलान्मम । सोऽपि स्म प्राह कस्याहमानतिं मूर्ख ! कारितः ॥१४३॥ का वा त्वयाऽनुनीतेत्थमनिबद्धाभिधायिना । कर्णधारोऽभ्यधाद् देहि सालस्याग्रे विलोचने ॥१४४॥ येयमभ्यर्णमास्ते नौ रतिरूपनिवासभः । कारितोऽस्यानतिं तस्यास्त्वदर्थेऽभ्यर्थिता च सा ॥१४५॥ अचिन्तयं ततश्चाहमहो ! नौच्छद्मनाऽमुना । मां प्रसादयता स्वामिभक्तेः समुचितं कृतम् ॥१४६॥ अहं तु प्रार्थनामेनामदत्ता गुरुभिः कथम् ।
प्रपत्स्ये राजकन्यानां न्याय्यो यद्वा स्वयंवरः ॥१४७॥ १ व । २ व । ३ ति । १ र्ष । ५ त्वदार्थ । ६ हैं । " यो ।
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org