________________
तिलकमब्जरीसारः।
४९
इतश्चैत्य ततश्चैत्यात् पुष्पपात्रभृतान्वितः । एकदेवलकेनेदं स राजपुरुषोऽभ्यधात् ॥१४८॥ बाले ! भाले निधेहीदं दृग्धारिहरिचन्दनम् । मूर्ध्नि देवाङ्गसंलग्नशेषं कुसुमदाम च ॥१४९॥ पुष्पपात्री पुरोधाय ततो देवलकोऽवदत् । नृत्यन्त्याः पद्मरागोऽसौ रसनातच्युतस्तव ॥१५॥ तदेतं सङ्ग्रहाणेति भाषमाणं च तं मुहुः। तथैव धीवराधीशदत्तनेत्राहमभ्यधाम् ॥१५१॥ भद्र ! किं भाषसे भूयो भूयः सर्व श्रुतं मया । स्वीकृतो नायकश्चायमत्युज्जागररागभूः ॥१५२॥ किन्तु तिष्ठत्वयं यावदिहस्थाऽहं गता पुनः। .. स्वस्थानं स्वीकरिष्येऽमुं काञ्चीमध्यसमागतम् ॥१५३॥ श्रीखण्डेनाऽथ पुण्ड्राणि कन्यानां स नरोऽकरोत् । प्रापय स्वयमेवाहमलिकं तिलकश्रियम् ॥१५४॥ आदाय पुष्पदामाऽर्थं [पा]थोधेः पूजनच्छलात् । तस्य राजकुमारस्य कण्ठदेशे न्यवेशयम् ॥१५५॥ सोऽपि सजा तया जातमिवोद्वाहमहोत्सवम् । आत्मनो मन्यमानस्तं निर्यामं नर्मणाऽब्रवीत् ॥१५६॥ मुहुः किमीक्षसे नास्या दास्याम्यंशमपि स्रजः । इतो भङ्गया कयाऽप्यन्यां याचस्व यदि ते स्पृहा ।।१५७।। सखेदं सोऽप्युवाचेदं याचे कमिह यत् तव । नीता प्रणयिनी ताश्च कन्याः कैश्चन मायिकैः ॥१५८॥ श्रुत्वेति किमु नमेंदं कि वाऽयं वीक्षते न 'माम् । एवं विमृश्य पश्यन्ती दिशः प्रेक्षे न कन्यकाः ॥१५९॥ विच्छायोऽभूत् कुमारोऽपि सालमालोक्य निर्जनम् । जगाद च विषादस्य सखे ! मात्मानमर्पय ॥१६॥ कृतं त्वया हि स्नेहस्य बुद्धभक्तेश्च सन्निभम् ।
इदं ममैव दुर्दैवललितं' फलितं सखे ! ॥१६॥ १ ष्टप २ । रहा । ३ छ । १ न । ५ मं । ६ त । ति, म. ७
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org