________________
श्रीपल्लीपालवंशीयधनपालविरचितः
[प्र.
तद् गत्वा शिबिरोदेशं स्वदेशं प्रति सम्प्रति । प्रयाणं दृढवणिं दापय ध्वजिनीपतिम् ॥१६२॥ रायमय ताताय राजन्यविजयार्जितम् । अलङ्कारकलापं च क्रमादम्बाजनस्य मे ॥१६३॥ विधेयो न च निर्बन्धः प्रतीपगमनाय मे । गतस्यापि हि गन्तारः प्राणा विरहिणो मम ॥१६४॥ तदेते वरमत्रैव देववेश्मपवित्रिते । त्यक्ताः प्रियाप्रतिच्छायाऽवगाहसुभगेऽम्भसि ॥१६५॥ इत्युदीर्य स विज़म्भिसाहसो हा ! कुमार ! किमिदं क्तिन्यते । एवमुद्रिति तत्र नाविके क्षिप्रमक्षिपदपांनिधौ वपुः ॥१६६॥ जलधिगतमथालिङ्गचैतं कृतार्थितजीविता तनुसहमपि क्लेशावासं त्यजामि निजामिमाम् । इति कृतमनास्तत्रापप्तं निमील्य विलोचने अपरमचलप्रेमा रामाजनो वितनोतु किम् ॥१६७॥ अस्पृष्टैव तदैव तोयधिजलैः स्पष्टेक्षणा च क्षणान्नैक्षे विश्वगुरोरगारमथ न प्राकारम ब्धि च न । तस्मिन्नेव परं सुखाश्रितमुषाप्रारम्भसम्भाविते
तल्पे सोधशिरोगृहान्तरसुहृद्यात्मानमालोकयम्* ॥१६८॥ इति [ श्रीतिलकमञ्जरीसारे] नौवर्णनो नाम पञ्चमो विश्रामः ।
[इति पञ्चमं प्रयाणकम् ।] ४ हरिणीछन्दः । * शार्दूलविक्रीडितवृत्तम् ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org