________________
अथ षष्ठं प्रयाणकम् । विस्मयात् तिलके स्पृष्टे करं दुष्ट्वाचन्दनम् । भग्नस्वप्नभ्रमा तल्पादुपविष्टाऽस्मि विष्टरे ॥१॥ रूपं तस्य कुमारस्य तच्च प्रेमविचेष्टितम् । ध्यायन्तीमभ्यधादेत्य सखी मां बन्धुसुन्दरी ॥२॥ एष दिव्यः कथं वेषो लोचने किञ्च लोहिते । जम्भारम्भोऽङ्गभङ्गश्च जागरं प्रोद्भिरन्ति ते ॥३॥ मया चायातया पूर्व नात्र दृष्टाऽसि तद् वद । आकुलं कलयत्यन्यत् कि मप्यालि ! मनो मम ॥४॥ अथाऽस्या दिव्यसम्भोगशङ्कापकाविलं मनः । क्षालयन्ती क्षैपावृत्तं वृत्तान्तमहमभ्यधाम् ॥५॥ निर्वता च तमावर्त्य पृच्छन्ती सा चिरं स्थिता । गतायां च गृह तस्यां विस्मिताऽहमचिन्तयम् ॥६॥ तिलकस्यानुभावोऽयमपश्यद् यदसौ न माम् । तदा हतां च निर्यामो निश्चिकाय स नायकः ॥७॥ प्रमृष्टेऽथ पुनदृष्टा तस्मिन्नस्मिन् वयस्यया । यद्वाऽवदत् तदैवेदं दृग्यारीति स खेचरः ॥८॥ एवं विकल्पैस्तदह विनाऽऽहारादिनाऽनयम् । भन्येधुर्मामुपागत्याबोधयद् बन्धुसुन्दरी ॥९॥ सखि ! बाष्पजलक्लिन्नकपोला किमु खिद्यसे । तव तेन सहावश्यं भविष्यति समागमः ॥१०॥ यद् विपार्यति नैवार्यवसुरातवचः क्वचित् । निर्बन्धबुद्धिरप्राप्ये भवेन्न च भवादृशाम् ॥११॥ इत्याश्वासनया साक्षादब्धौ पतितमप्यमुम् । स्वमिवोत्प्रेक्ष्य जीवन्तमाशाबन्धादां वपुः ॥१२॥ एकदाऽभ्यागते पुष्पायुधायुष्टोमयज्वनि । विप्रयुक्तजनप्राणाभिचारचतुरे मधौ ॥१३॥ १ छि । २ क्षि । त् । ४ श्च । ५ रहा । ६ स्वा । ७ णां ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org