Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 106
________________ तिलकमञ्जरीसारः। हा ! हा ! कश्चिन्महासत्त्वः स्त्रीरत्न त्रायतामिदम् । इत्याक्रन्ददुपेत्यैतां सान्त्वयंस्त्वामुपागमम् ॥८०॥ विरामेऽस्य गिरामेतद्वयस्या मे तमब्रवीत् । वज्रायुधाय सन्धित्सुर्दास्यत्येनां प्रगे पिता ॥८१॥ तद् युक्तं नक्तमेवास्याः स्वदेशे नयनं तव ।' सोऽब्रवीदत्र पित्राऽहं 'प्रहितो हितमिच्छता ॥८२॥ तदस्या हरणेन स्यादहितं विहितं न किम् । तद् विधेयं भवेद् यस्मादभीष्टमय[श]स्तु न ।।८३॥ अथ प्रापय्ये शुद्धान्तमावामावासमव्रजत् । कथञ्चिद् विरहार्ताऽहमध्यारोहं शिरोगृहम् ॥८४॥ हित्वा शालीनतामाली मातुराख्यन्ममातुरा । अपहारादिवृत्तान्तं सर्वं माताऽपि मत्पितुः ॥८५॥ आकर्ण्य जातवैवर्ण्य[:] सोऽवदद् देवि ! दीयते । वज्रायुधाय चेन्नेयं सन्धिर्विघटते तदा ॥८६॥ दीयतेऽथ तदा पुत्री विसूत्रयति जीवितम् । तद् युज्यतेऽधुनेवास्या देशान्तरविसर्जनम् ॥८७॥ प्रकाश्यते प्रजास्वेतदनङ्गोत्सवजागरात् । शूलेनोन्मूलितप्राणा प्रायादायुष्मती दिवम् ॥८॥ स्वस्थापत्यमथापत्यप्रियः प्रस्थाप्य मां तदा । आनाययत् त्रपानम्रामङ्कमारोप्य चालपत् ।।८९॥ . वत्से ! क्षमस्व स्खलितं कलितं न हि ते मनः । वन्मात्राऽप्यधुना येनेदं व्याख्यायि पुरा न मे ॥१०॥ स्वस्था तदाऽऽ[स]स्व दास्ये त्वां प्राणच्छेदेऽपि न द्विषे । केवलं कश्चिदायासस्त्वया सह्यः प्रवासजः ॥११॥ इहस्था दुनिषेधा हि त्वं प्रातः सम्प्रदार्थिनाम् । इत्युक्तवन्तं जनकं जगाद जननी मम ॥९२॥ १५ on प्य । २ य । ३ 'नार । ति, म. ८ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146