________________
तिलकमञ्जरीसारः। हा ! हा ! कश्चिन्महासत्त्वः स्त्रीरत्न त्रायतामिदम् । इत्याक्रन्ददुपेत्यैतां सान्त्वयंस्त्वामुपागमम् ॥८०॥ विरामेऽस्य गिरामेतद्वयस्या मे तमब्रवीत् । वज्रायुधाय सन्धित्सुर्दास्यत्येनां प्रगे पिता ॥८१॥ तद् युक्तं नक्तमेवास्याः स्वदेशे नयनं तव ।' सोऽब्रवीदत्र पित्राऽहं 'प्रहितो हितमिच्छता ॥८२॥ तदस्या हरणेन स्यादहितं विहितं न किम् । तद् विधेयं भवेद् यस्मादभीष्टमय[श]स्तु न ।।८३॥ अथ प्रापय्ये शुद्धान्तमावामावासमव्रजत् । कथञ्चिद् विरहार्ताऽहमध्यारोहं शिरोगृहम् ॥८४॥ हित्वा शालीनतामाली मातुराख्यन्ममातुरा । अपहारादिवृत्तान्तं सर्वं माताऽपि मत्पितुः ॥८५॥ आकर्ण्य जातवैवर्ण्य[:] सोऽवदद् देवि ! दीयते । वज्रायुधाय चेन्नेयं सन्धिर्विघटते तदा ॥८६॥ दीयतेऽथ तदा पुत्री विसूत्रयति जीवितम् । तद् युज्यतेऽधुनेवास्या देशान्तरविसर्जनम् ॥८७॥ प्रकाश्यते प्रजास्वेतदनङ्गोत्सवजागरात् । शूलेनोन्मूलितप्राणा प्रायादायुष्मती दिवम् ॥८॥ स्वस्थापत्यमथापत्यप्रियः प्रस्थाप्य मां तदा । आनाययत् त्रपानम्रामङ्कमारोप्य चालपत् ।।८९॥ . वत्से ! क्षमस्व स्खलितं कलितं न हि ते मनः । वन्मात्राऽप्यधुना येनेदं व्याख्यायि पुरा न मे ॥१०॥ स्वस्था तदाऽऽ[स]स्व दास्ये त्वां प्राणच्छेदेऽपि न द्विषे । केवलं कश्चिदायासस्त्वया सह्यः प्रवासजः ॥११॥ इहस्था दुनिषेधा हि त्वं प्रातः सम्प्रदार्थिनाम् ।
इत्युक्तवन्तं जनकं जगाद जननी मम ॥९२॥ १५ on प्य । २ य । ३ 'नार । ति, म. ८
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org