________________
[प्र०
श्रीपल्लीपालवंशीयधनपालविरचितः केनोदधृतोऽहं नौश्चेह कथं प्राप्तेति विस्मितम् । उपेत्य राजलोको मामुत्सुकः शिबिरेऽनयत् ॥६७॥ महानि कानिचित् तत्र विरहक्षामविग्रहः । त्वामेवाहर्निशं ध्यायन्नतिवाहितवानहम् ॥६॥ सखेदं तारकोऽन्येद्युाजहार कुमार ! किम् । क्रियते कोऽपि नोपायः शामाय दवथुद्विषः ॥६९॥ किं ते स्मृतिपथं नैति यत् तदा भाषितं तया । नायकं स्वीकरिष्येऽमुं काञ्चीमध्यसमागतम् ॥७०॥ तत् किं काञ्चीपुरीं गन्तुं गृह्यतेऽद्यापि नोद्यमः । अत्रान्तरे प्रतीहारी प्रविश्येति व्यजिज्ञपत् ॥७१॥ कुमार ! देवपादान्तादागतो लेखहारकः । अस्ति द्वारीत्यथादेशान्मम प्रावेशयद् द्रुतम् ॥७२॥ सोऽपि नत्वाऽक्षिपल्लेखं तस्मिन्नस्मि च दृष्टवान् । सख्यं दूतमुखेनास्मान् द्रविडेशोऽरिपीडितः ॥७३॥ याचते स्म तदाऽस्माभिः संश्रुत्य प्रहितं बलम् । कल्याणशालिना तच्च गत्वाऽधिष्ठेयैमञ्जसा ॥७॥ अथ हृष्टः सखे ! तातलेखेनैव तव स्पृहा । पूणेत्युक्त्वा सुवेलाद्रेः शेषं सैन्यमनायिषम् ॥७५॥ प्राप्तः ससैनिकः काञ्च्यां त्वत्पित्राऽथ प्रवेशितः । मालोके नैकधाऽत्र त्वां द्वेधाऽपि क्षिप्ततारकः ॥७६॥ अध प्रद्युम्नयात्रायामत्रायातः प्रगेऽप्यहम् । त्वदर्शनाशया बैणमीक्षमाणोऽनयं दिनम् ॥७७॥ प्राप्तमायतनेऽत्रापि तया नायतनेत्रयाः । इत्युल्बणाधिः सन्ध्यायां विसृज्य स्वपरिच्छदम् ॥७८॥ सङ्कल्पजाग्रतो जाग्रदुत्पलं तल्पमास्थितः ।
नालायातैः कृतायासः प्रासकल्पैः करेविधा ॥७९॥ १ न्तु । २ त् । ३ ष्टे । ४ This is not in the original work.
prose
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org