SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरीसारः। अयं हि मत्समाक्रन्दादेत्योप्लुत्यास्त्रेधारया । छित्वा च पाशं प्रत्यैच्छत् त्वां पतन्ती भुवस्तले ॥५३॥ तदहेति प्रणामादिसत्कारमुपकारकृत् । इत्युक्त्वा पणिना मोलिं तमभ्यनमयन्मम ॥५४॥ प्रतिप्रणाममाधाय सोऽभ्यधाद् बन्धुसुन्दरीम् । त्वमेवास्याः शुभे सर्वप्रकारमुपकारिणी ॥५५॥ अहं पुनर्महानर्थहेतुरस्याः किलाभवम् । वचस्तदुपकारीति त्रपाकरमिदं मयि ॥५६॥ साऽपि स्माह महानर्थहेतुस्त्वमिति नानृतम् । त्वदभिप्रायतोऽनर्थहेतुरस्याः कथं भवान् ? ॥५७॥ स व्याहृत रहस्यं तत् कथङ्कारं प्रकाश्यते । ततः सा मन्मुखे चक्षुरक्षिपत् प्रश्नकाङ्क्षया ॥५८॥ स्थित्वाऽहं च तदभ्यणे कर्णे वृत्तं तदभ्यधाम् । साऽथ साङ्गमिवानङ्गं तं निर्वर्ण्य वहन्मुदम् ॥५९॥ तद् भवत्विदमेवास्यातिथ्यमित्यस्य पाणिना । मत्पाणिं स्वेदसम्पन्नहस्तालेपमयोजयत् ॥६०॥ अभ्यधाच्च विधातव्यं कुमारेण तथा यथा । मत्सखीयं न दुःखस्य भूयो भवति भाजनम् ॥६१॥ स व्याहरदिहाप्यर्थे का नाम प्रार्थना मयि । इदमेव विधेयं मे प्रमाणं विधिरत्र तु ॥६२॥ कृतप्रश्नश्च सख्याऽसौ शंसन् दिग्विजयक्रमम् । पयोधिवा प्रस्तावेऽपृच्छ्यतोत्सुकया मया ॥६३॥ स्वमार्यपुत्र ! केनाब्धेस्तीरमुत्तारितस्तदा । सोऽप्युवाच तदान्तौं वाझे निपतितः प्रिये ! ॥६॥ दिव्यां वाचमथाऽश्रौष कुमार ! किमिदं कृतम् । प्रपाततीर्थैः सदृश तीर्थ वीरप्रभोरपि ॥६५॥ मामुपालभते कोऽयमित्युन्मीलितलोचनः । सैन्यासन्नतटेऽपश्यं नावं विस्मेरनाविकम् ॥६६॥ १ । २ म । मि । ३ वा । ____Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy