________________
श्री पल्ली पालवंशीयधनपालविरचित
अथाsशोकोऽपि शोकार्त्त इवोड्डीनखगारवैः । त्रातारमाह्वयद् भारनम्रोन्नम्रलताभुजः || ३९ ॥ अथाऽपश्यमहं पाशसङ्कोचाकुञ्चितेन्द्रियाम् । निर्वेदमेदुराक्रन्द विधुरां बन्धुसुन्दरीम् ||४०|| रुदन्तीं रुद्धवाणिस्तां पाणिनैव न्यवारयम् । प्रायुङ्क्त साऽप्यथोपायान् पाशमोक्षकृते क्षणम् ॥४१॥ क्षीणोपाया च साऽधावन्मन्मथायतनोन्मुखी । अतः परं च नो किञ्चिज्ज्ञातं मूर्च्छागमान्मया ॥ ४२ ॥ वेलयाऽथ कियत्याऽपि प्रभवच्चेतना तनुम् । दधानाsहं सुधापपर्यङ्कशयितामिव ॥४३॥ यो मे वंशो यथा वृद्धिरपहारो यथा निशि । यथा विद्याधरालापः कुमारालोकनं यथा ॥४४॥ स्रजः क्षेपो यथा पातः पातस्तस्य यथाम्बुधौ । इत्यादि सास्रं शंसन्तीम श्रौषं बन्धुसुन्दरी [म् ] ॥४५॥ कोऽयमाप्ततैमो यस्मै रहस्यं कथयत्यसौ ।
देहस्पर्शश्च कस्यायममृतस्यन्दसुन्दरः || ४६ ॥ विमृश्येति मयाऽऽनन्द मन्दोन्मीलित नेत्रया । शृङ्गारमुद्वहन्मारज्वरातुरजनोचितम् ॥४७॥ वीजयन्मां निजोत्सङ्गकलितां कदलीदलैः । स एव ददृशेऽदृष्टपूर्वः पार्थिवसम्भवः ॥ ४८ ॥ विलोक्याsतर्कयं चाहं बभूव किमहो ! बहिः । पाशैसङ्कोशविधुरान्ममैव हृदयादयम् ||४९|| गिरामगोचरं किञ्चित् तदङ्गस्पर्शतः सुखम् । वेदयन्ती सुदुःप्रापं प्रापं विह्वलतामहम् ||५०|| किं ते सखि ! दुनोतीति सख्याऽहं व्याहृता पुनः । संवृताङ्गा तदुत्सङ्गादुत्थायोपाविशं तटे ॥ ५१ ॥ मज्जानुन्यस्तमूर्द्धा सा रुदित्वा चिरमभ्यधात् । सखि ! सर्गाद्भुतं धातुः पश्यैतं जीवितप्रदम् ॥ ५२ ॥
૪
१ तू । २ प्ल । ३ स । ४ शा
Jain Education International 2010_05
For Private & Personal Use Only
[ प्र०
www.jainelibrary.org