________________
तिलकमञ्जरीसारः। ततस्तातान्तिके गत्वा क्षणं स्थित्वाऽहमुत्थिता । मुहुस्तदास्यं पश्यन्ती भूयो दुर्लभदर्शनम् ॥२५।। एत्य मातुर्गृहे भुक्त्वा भावितद्विरहातुरा । तया सहैकपात्रेऽन्नपिण्डान् विषमयानिव ॥२६॥ लीलोद्यानमगां तत्र पत्रिणः पादपानपि । स्वहस्तलालितान् बालानालपं बाष्पविह्वला ॥२७॥ सरोजिन्यां ततस्तेजोनिधौ निपतितेऽम्बुधौ । मयीव म्लानिमाप्तायामध्यारोहं शिरोगृहम् ॥२८॥ विसर्जितजनाऽजल्पं तल्पस्थां बन्धुसुन्दरीम् । निदिदासुरहं गच्छ त्वमप्यालि ! निजालयम् ॥२९॥ साऽपि स्वैरमनालापादकालप्रेषणादपि । जाताशङ्का क्षणं स्थित्वा किञ्चिद् ध्यात्वा विनिर्ययौ ॥३०॥ तस्यां गतायामुत्थाय तल्पान्निबिडितांशुका । क्षणाक्षिप्तपरीवाराऽलक्षिता द्वारमागता ॥३१॥ सदनप्रत्यगुद्यानपृष्ठेनाराममव्रजम् । कुसुमाकरनामानमहमप्रहताध्वना ॥३२॥ उद्यानपालकाशङ्का शङ्कुष्वपि वितन्वती । सख्या धृतेति मन्वाना लतालानेऽपि चाश्चले ॥३३॥ कामायतनमागत्य द्वारस्थैव सुमाञ्जलिम् । क्षिप्त्या देवमहं पञ्चबाणं प्राणंशिषं ततः ॥३४॥ बहिः प्राकारवलयादेत्य मृत्युमनोरथा । अशोकविटपे शोकशान्त्यै पाशमजीघटम् ॥३५॥ मासूत्र्य गात्रिकाबन्धमभिष्ट्रयेष्टदेवताम् । बध्वा बद्धाञ्जलिर्लक्षमन्तरिक्षेऽभ्यधामहम् ॥३६॥ लोकपालाः कुमारस्य तस्य प्रारभ्य दर्शनात् । पुमांश्चेत् कोऽपि साकाङ्क्ष चक्षुषाऽपि न वीक्षितः॥३७॥ भवान्तरेऽपि तद् भूयात् तेनैव सह सङ्गमः । इत्युक्त्वा कन्धरान्यस्तपाशाऽstमानमलम्बयम् ॥३८॥ १ स्था । २ or । ३ वि । १ मष्टेनो ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org