Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 112
________________ तिलकमञ्जरीसारः। ततश्चतुरिकाऽऽगत्य बभाष भर्तृदारिके !। आर्यों चारायणो द्वारि स्थापत्यः स वदत्यदः ॥१४॥ आयें ! तिलकमञ्जा गाढमस्वस्थदेहया । प्रहितोऽहमिहानेतुं रयान्मलयसुन्दरीम् ॥१५॥ तामपृच्छदसौ वेत्सि किञ्चिदस्वास्थ्यकारणम् । साऽवादीद् वेग्मि नो सम्यक् परं ह्यस्तनवासरे ॥१६॥ कुसुमान्यहमाहतु सरस्तीरवनं गता । रममाणाऽथ तत्रैवाययौ तिलकमञ्जरी ॥१७॥ रन्तुमन्तवेणं सर्वः प्रारेभे तत्सखीजनः । पुष्पावचायिनी साऽपि विवेशैलालतागृहम् ॥१८॥ अथाम्बरात् पविक्षुण्णाञ्जनादिशिखरोपमः । कोऽपि सत्त्वोऽपतत् तत्र तडागे गजगजितः ॥१९॥ ततस्तत्पातनिर्यातविहलैर्गहरादिषु । द्रुतमदिप्रदेशेषु प्रणेशेऽनुचरीजनैः ॥२०॥ कियतीमप्यतिक्रम्य वेलामेलालतागृहात् । निर्जगाम सलज्जेव देवी तिलकमञ्जरी ॥२१॥ गत्वा तमालमूलं च दुकूलं कुर्वती दृढम् । जम्भारम्भोल्लसद्वाष्पकणक्लिन्नेक्षणा क्षणम् ॥२२॥ स्थिता प्रतीपं पश्यन्ती लताजालान्तरेण सा । पुनर्गता लतागारेऽलीकपुष्पावचायिनी ॥ २३ ॥ स्थित्वा तद्द्वारि सोद्वेगा वेगात् तनमभ्रमत् । . अथारुह्य सरःपालिमालुलोके दिशोऽखिलाः ॥२४॥ किं वस्तु किञ्चित् किं वाऽसौ सखीलोकं विलोकते । विना मनोभवं भावा यदि वा न भवन्त्यमी ॥२५॥ तदद्धा विप्रलब्धाऽसौ केनापि सुभगात्मना । मयेत्यभ्यूहितेऽभ्येत्य नीतालीभिर्बलाद् गृहम् ॥२६॥ तत्राऽप्यगमयत् त्यक्तभुक्तादिः प्राक्तनं दिनम् । एवमुक्त भयोन्मुक्ताऽलपन्मलयसुन्दरी ॥२७॥ १ प्या । २ ष्य । ३ ‘टूया । °द्वचन' । ५ त्गृ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146