________________
तिलकमञ्जरीसारः।
ततश्चतुरिकाऽऽगत्य बभाष भर्तृदारिके !। आर्यों चारायणो द्वारि स्थापत्यः स वदत्यदः ॥१४॥ आयें ! तिलकमञ्जा गाढमस्वस्थदेहया । प्रहितोऽहमिहानेतुं रयान्मलयसुन्दरीम् ॥१५॥ तामपृच्छदसौ वेत्सि किञ्चिदस्वास्थ्यकारणम् । साऽवादीद् वेग्मि नो सम्यक् परं ह्यस्तनवासरे ॥१६॥ कुसुमान्यहमाहतु सरस्तीरवनं गता । रममाणाऽथ तत्रैवाययौ तिलकमञ्जरी ॥१७॥ रन्तुमन्तवेणं सर्वः प्रारेभे तत्सखीजनः । पुष्पावचायिनी साऽपि विवेशैलालतागृहम् ॥१८॥ अथाम्बरात् पविक्षुण्णाञ्जनादिशिखरोपमः । कोऽपि सत्त्वोऽपतत् तत्र तडागे गजगजितः ॥१९॥ ततस्तत्पातनिर्यातविहलैर्गहरादिषु । द्रुतमदिप्रदेशेषु प्रणेशेऽनुचरीजनैः ॥२०॥ कियतीमप्यतिक्रम्य वेलामेलालतागृहात् । निर्जगाम सलज्जेव देवी तिलकमञ्जरी ॥२१॥ गत्वा तमालमूलं च दुकूलं कुर्वती दृढम् । जम्भारम्भोल्लसद्वाष्पकणक्लिन्नेक्षणा क्षणम् ॥२२॥ स्थिता प्रतीपं पश्यन्ती लताजालान्तरेण सा । पुनर्गता लतागारेऽलीकपुष्पावचायिनी ॥ २३ ॥ स्थित्वा तद्द्वारि सोद्वेगा वेगात् तनमभ्रमत् । . अथारुह्य सरःपालिमालुलोके दिशोऽखिलाः ॥२४॥ किं वस्तु किञ्चित् किं वाऽसौ सखीलोकं विलोकते । विना मनोभवं भावा यदि वा न भवन्त्यमी ॥२५॥ तदद्धा विप्रलब्धाऽसौ केनापि सुभगात्मना । मयेत्यभ्यूहितेऽभ्येत्य नीतालीभिर्बलाद् गृहम् ॥२६॥ तत्राऽप्यगमयत् त्यक्तभुक्तादिः प्राक्तनं दिनम् ।
एवमुक्त भयोन्मुक्ताऽलपन्मलयसुन्दरी ॥२७॥ १ प्या । २ ष्य । ३ ‘टूया । °द्वचन' । ५ त्गृ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org