________________
श्रीपल्लीपालवंशीयधनपालविरचितः
प्र० रोग[:] सोऽल्पतरो गच्छ तत् त्वं चारायणान्विता । तामाश्वास्य वदेश्चेदं मदचो यन्मयेक्षितः ॥२८॥ दूरदेशान्तरायातः प्रातरादिजिनालयम् । मेघवाहनराजेन्दोनन्दनो हरिवाहनः ॥२९॥ स च मदचसा तस्थौ मठेऽत्राद्यतनं दिनम् । तं बन्धुकल्पमुस्रष्टुं युक्तं नेत्यस्मि नागता ॥३०॥ गतायां च ततस्तस्यां चिरं मलयसुन्दरी । शंसन्ती स्वानुभूतानि स्थित्वा शय्यां निजां ययौ ॥३१॥ अहं तु पद्मपर्यके रत्नमण्डपिकास्तृते । स्थितश्चतुरिकाहस्तमृद्यमानपदद्वयः ॥३२॥ स्मृत्वा तिलकमञ्जर्याः स्मरात्ति कीर्तितां तदा । बहुमानं वहन्नात्मन्यहं चिन्तितवानिति ॥३३॥ अरे चेतः ! कृते यस्याः प्रापितोऽस्मीदृशी दशाम् । सा तवोच्छ्वसितं जाता स्वयमेव वशंवदा ॥३४॥ एतदभ्यर्थये किन्तु प्रवर्त्तथास्तथा यथा । उपहासास्पदं न स्यामस्याः प्रथमदर्शने ॥३५॥ इत्यादि ध्यायतो मेऽगाद् वेगाद् दीर्घाऽपि सा निशा । सोऽप्युदीरितवान् प्रातर्बन्दीव श्लोकमीदृशम् ॥३६॥ "प्रभातप्रायाऽसौ रजनिररुणज्योतिररुणो रुणद्धीदं रोदो दिशि [दिशि] तमस्ताम्यतितमाम् । प्रभाच्छिद्रश्चन्द्रो दलति दलमैत्रों जलरुहां रहोऽनुत्साहस्य श्लथय नृप ! निद्रासुखरसम्"" ॥३७॥ श्रुत्वेत्युत्थाय विस्मेरोऽदृष्टपारसरोऽवजम् । स्नात्वा तत्रात्तपद्मश्च जिनसम तदागमम् ॥३८॥ बिम्बमभ्यर्च्य जैनेन्द्रमीन्द्रनीलशिलाजुषः । गत्वा मलयसुन्दर्या न्यषीदं नातिसन्निधौ ॥३९॥ ततश्चतुरिकेत्यूचे गुणान् श्रुत्वा कुमार ! ते ।
प्रेमाश्चर्यवशादत्राऽऽगन्ता तिलकमञ्जरी ॥४०॥ १ स्वा । २ स । ३ ण in TM | " Quoted from TM cf. TM (N) p 359। ५ भ्यचीजेनें ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org