________________
तिलकमञ्जरीसारः। तन्मुहूर्तमिहैवाद्य स्थेयं कल्याणमूर्तिना । एवं वदन्त्यामेवास्यां तूर्यध्वनिरुदस्थितः ॥४१॥ धोतयन्ती सितच्छत्रमण्डलेनाथ रोदसीम् । अक्षं दधाना मायूरातपत्रमयमस्य च ॥४२॥ राजमानाऽभितो रत्नविमानस्तारकोज्ज्वलैः । तन्वानोभयतः शुभ्रचामरैः किरणच्छटाः ॥४३॥ आरुढा हस्तिनीं श्यामा प्रतिमारूपतः क्षिती । चन्द्रमूत्तिरिवोत्तीर्णा दिवस्तिलकमञ्जरी ॥४४॥ यानादुत्तीर्य तद्वारि निवारितपरिच्छदा । प्रविश्य तत्रोपा[वि]क्षद् द्रविडेन्द्रसुताग्रतः ॥४५॥ स्पृशन्ती तां करेणांसदेशे मलयसुन्दरी । अप्राक्षीत् किं सखि ! क्षामा किं नामासीदपाटवम् ॥४६॥ इत्युदीये मयि क्षिप्तनेत्रा नम्राननां पुनः । तामदत्तोत्तरामूचे देहि दृष्टिमितः सखे ! ॥४७॥ श्रीमेघवाहनस्यैष भरतार्द्धमहीभृतः । कलावान् प्रथमः सूनुः] कुमारो हरिवाहनः ॥४८॥ ततो मदेन मुकुलां विस्मयेन विकस्वसम् । प्रेरितामनुसगेण ब्रीडया विषमीकृताम् ॥४९॥ सा मे वपुषि पीयूषवृष्टिं दृष्टिं न्यवेशयत् । जगौ मृगाङ्कलेखाऽथ तत्सखी द्रविडेन्द्रजाम् ॥५०॥ सत्यं कलावानेवायं देव्या दवथुमन्यथा । कथं चतुरिकाख्यातं नामाऽप्यस्य निराकरोत् ॥५१॥ काश्चीराजात्मजाऽप्यालि ! प्रभावो हि महात्मनाम् । अन्यूनमहिमा नूनमित्युक्त्वा मौनमाश्रयत् ॥५२॥ क्षणं स्थित्वा सवैलक्षं ततस्तिलकमञ्जरी । धैर्यमालेम्ब्य ताम्बूलं सकरं स्वयं ददौ ॥५३॥ अथाऽवदत् प्रसन्न मां दक्षिणक्षितिपाङ्गजा । ज्ञातसारा कुमारासौ कलासु सकलास्वपि ॥५४॥ १त्र । २ क्षित् । ३ मु । ४ मु । ५ लि । ६ कुमार ! + असौं । ति. मि, ९
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org