________________
अथ सप्तमं प्रयाणकम् ।
अथाहं तव्यथाक्रान्तोऽवदं मलयसुन्दरि !। मा विषीदास्ति दीर्घायुः शुभंयुस्ते स वल्लभः ॥१॥ तवाद्यदर्शनादर्वाक तस्य सर्वमवैम्यहम् । न जाने युवयोर्योगः कथं भावी दवीयसोः ॥२॥ साऽभ्यधात् किमनेनेत्थमनुभूतफलेन मे । रतिर्मनोभवस्येवोज्जीवनेनैव जृम्भते ॥३॥ किन्तु चेतः क्षिणोत्येतत् प्रीतिदं मादृशामपि । त्वदर्शनं विना स्थाता कथं स प्रणयी जनः ॥४॥ अथाऽवोचं न चिन्त्योऽर्थः स बुधैर्यो न सिध्यति । साऽप्यथोवाच नन्वेष लेखदानेन साध्यते ॥५॥ किन्त्वस्ति दैवान्नैवात्र पक्षिरूपोऽपि खेचरः । अथैत्यैकः शुकः प्राह अहमस्मि तदादिश ॥६॥ कीरस्योदोरणादेवं साऽभूत् सँभयविस्मया । अहं त्वलक्षयं पक्षिमात्रं न स्यादयं शुकः ॥७॥ क्षिप्त्वा तस्याग्रतो लेखं न्यस्तधातुरसाक्षरम् । अभ्यधां भद्र ! लेखोऽयं लौहित्यतटतस्थुषः ॥८॥ प्राप्यः कमलगुप्तस्य सेनान्यः सत्वरं त्वया । ' तं च चञ्चुपुटे धृत्वा सोऽगमद् गगनाङ्गणम् ॥९॥ याम्यचारेण लौहित्यमादृत्य प्रस्थिते शुके । भानौ च सन्ध्याविधयेऽचलन्मलयसुन्दरी ॥१०॥ अथाऽपूर्वाभ्युपगमात् खगे नेत्रपथातिगे । जगत्तिमिश्रमाश्चर्य मम मानसमानशे ॥११॥ समापिते विधौ सान्ध्ये भूधरालोकलोलुभः । मठाग्रभुवमारोहमिन्दुरप्युदयाचलम् ॥१२॥ कृतप्रदोषकृत्यां तां मणिमण्डपिकाङ्गणे ।
उपविष्टामुपागत्योपाविशं नातिसन्निधौ ॥१५॥ १ त्यो । २ घे । ३ म । १ से ।।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org