________________
तिलकमञ्जरीसारः। तत्रायातः जातुचित् काञ्ची +पतिः कुसुमशेखरः । अथ तां मुनिना दत्तां स प्रीतः परिणीतवान् ॥१३२॥ नीत्वा च स्वपुरं प्रेम्णा महादेवीपदेऽकरोत् । क्रमादनुपमामेकां' सुतामेतामसूत सा ।।१३३॥ [क]माभ्यस्तकला चेयं सायं सौधाग्रशायिनी । हृत्वा नभश्चरैनीता पञ्चशैले जिनालयम् ॥१३४॥ तत्र वीरप्रभोर्यात्रां पाक्षिकीमीक्षितुं मया । गतया ददृशे मध्येमण्डपं कार्तिकीनिशि ॥१३५॥ चित्रलेखामुखादेषा श्रुत्वेत्यानन्दशोक]भाग् । मामालिङ्गत् करे धृत्वा निन्ये चैनं जिनालयम् ॥१३६॥ कृतादिजिनपूजा मां गृहे नेतुमतत्वरत् । अम्ब ! स्थातुं मनोऽत्रैव मुनिकन्यावतेन मे ॥१३७॥ मैयेत्युक्ता तदेवोचे सा मुहुः स्नेहमोहिता । अदान्मदाग्रहे चास्य मठस्यान्तरभूमिकम् ॥१३८॥ सा मे चतुरिकामेतां कृत्वा च परिचारिकाम् । तद्विमानं सरोदृष्टमारुह्य स्वगृहं ययौ ॥१३९॥ स्थिताऽस्मि चात्रैव गतत्रपैषा लेखात् किलोत्प्रेक्ष्य तमक्षताङ्गम् । प्रशान्तवैराश्रमतापसीभिः प्रत्तं जपन्ती प्रियमेलमन्त्रम् ॥१४॥ स्वदुःखदहनैर्जगज्ज्वलदिवेक्षमाणा क्षणं क्षणं च परिचिन्वती किमपि मोहरूपं तमः । क्षिपामि दिवसानिमान् मम न वेद्मि कालः कदा
स्मरेदिति निवेदितस्वचरिता "व्यरंसीदसौ ॥१४१॥ इति श्री[तिलकमञ्जरीसारे] मलयसुन्दरीवृत्तान्तो नाम षष्ठो विधामः।।
[इति षष्ठं प्रयाणकम् ]
+One syllable is more in this quarter; probably the poet intended to take 'ची' as ह्रस्व !
१ का। २ नी । ३ यमे । ४ च । ५ सो। *पृथ्वीवृत्तम् । . .
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org