SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ६० श्रीपल्लीपालवंशीयधनपालविरचितः [प्र० केयं सप्रत्यभिज्ञेव मामेवमुपगृहति' । इत्यहं विमृशन्ती तां चित्रलेखेत्यवागमम् ॥१२०॥ अत्रान्तरे महादेवी चक्रसेनस्य चक्रिणः । खेचरीभिर्वृता तत्र पत्रलेखा समागमत् ।।१२१॥ सोवाच सख्यः कस्येदं विमानं हारिचन्दनम् । ततो मुक्तावली नाम कोशधामपदाऽवदत् ॥१२२॥ तदेवेदं यदानेतुं देवि ! गन्धर्वको गतः । यदत्र वस्त्रे दृश्येते स्वामिन्या तस्य दापिते ॥१२३॥ साऽप्यवेक्ष्य तदेवेदं कामवस्थामगात् पुनः । गन्धर्वक[:] स इत्युक्त्वा चित्रलेखामुपागमत् ॥१२४॥ अपृच्छच्च शनैः केयमित्यथोदश्रु साऽवदत् । धिर विधि येन नीतेयं ही तेऽपि प्रश्नगोचरम् ॥१२५॥ वेत्त्येवं तावद् भवती भगिनो मत्कनीयसी । आसीद् गन्धर्वदत्तेति तां दर्शाब्दां पितुर्ग्रहात् ॥१२६॥ लास्यलीलायितं स्वल्पकालशिक्षितमीक्षितुम् । वैताढयें वैजयन्ती स्वां पुरं मातामहोऽनयत् ॥१२७॥ धरित्रे त्वभ्यमित्रीणे तस्यां च पुरि जातुचित् । सौप्तिकं शत्रुसामन्तो जितशत्रुरपातयत् ॥१२८॥ तबलेनाऽऽकुले चान्तःपुरेऽन्तर्वशिकस्ततः । त्रस्तां समरकेलिस्तामुत्क्षिप्योदपतन्नभः ॥१२९।। तपितुर्धाममप्राप्नुकामः शस्त्रवणाकुलः । प्रशान्तवैरेऽवातारीन्मलयोपत्यकाश्रमे ॥१३०॥ तां क्षिप्त्वाऽके कुलपतेर्निर्वृतः स दिवं ययौ । मुनिनाऽपत्यवद् दृष्टा स्पृष्टाऽथो यौवनेन सा ॥१३१॥ १ ति । २ यं । ३ त्ये। " य । ५ सो । ६ शां । ७ ढय । ८ वो। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy