Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
[प्र.
श्रीपल्लीपालवंशीयधनपालविरचितः देव ! देशान्तरं प्राप्या चेत् तत्र मलयाश्रितम् । यातुं प्रशान्तवैराख्यमेषा वैखानसाश्रमम् ॥१३॥ देवेन सह यत्राभून्मम प्रथमदर्शनम् । तत्राऽसौ हि सुखं स्थाता तातशान्ततपान्तिके ॥९४॥ एवमस्त्विति तातस्यादेशादारुह्य हस्तिनीम् । तरङ्गलेखयाऽम्बाया बालसख्या समन्विता ॥९५।। निवृत्तपौरसञ्चारनिशीथपृथुले पथि । निरगां नगरीतोऽहं क्रमात् प्रति तमाश्रमम् ॥९६॥ तापसीपरिवारैव व्यापारैः सेचनादिभिः । स्मरन्ती तस्य निन्येऽहं तत्र कञ्चिदनेहसम् ॥९७॥ एकदा चागतं काञ्च्याः कञ्चित् कुलपतेः पुरः । गदन्तं तद्गतोदन्तमश्रौषमुषसि द्विजम् ॥९८।। यथा कामत्रयोदश्यां युध्यमानः पुराद् बहिः । जितेनाऽथारिणा नक्तं दीर्घनिद्रा स लम्भितः ॥९९॥ तन्निशम्याग मूर्छा तदन्ते किमतः परम् । श्रोतव्यमिति मत्वाऽब्धेस्तटं निर्जनमैत्रजम् ॥१०॥ निर्वापये वपुः प्रेयोवियोगोत्तप्तमम्बुधौ । इत्यात्तधीः पदध्वानं श्रुत्वा प्रत्यग् व्यलोकयम् ॥१०१॥ तरङ्गलेखामायान्ती दूराद् धृतकमण्डलुम् । दृष्ट्वा च कथमिष्टं स्यादित्यपश्यं दिशोऽखिलाः ॥१०२॥ मृतपक्षिपरिक्षिप्तमूलं किम्पाकपादपम् । आराद् वीक्ष्य मयाऽभक्षि तस्य मृत्युफलं फलम् ॥१०३॥ तद्विषव्याकुलाऽऽश्रित्य शिलामेकामुपाविशम् । तरङ्गलेखाऽप्यागत्य परुषं मामभाषत ॥१०४॥ कस्तवात्र किमत्रास्ति काय तेऽनल्पचापले ! ।
इत्याद्यशुश्रूषुरिव प्रयाता मेऽथ चेतना ॥१०५॥ , वेधस्वा० । १ त । ३ स्था । ४ तं । ५ थ । ६ स ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146