Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad
View full book text
________________
४]
तिलकमञ्जरोसारः।
इत्यौत्सुक्यादनुध्वानं धावन् पक्षे स दक्षिणे । रत्नांशुभिर्नभश्चित्रकर्मठं मठमैक्षत ॥९७॥ उत्तरं तं ततोऽपश्यद् दिव्याभरणभूषितम् । गन्धर्वकमधीयानं सानन्दं श्लोकमीदृशम् ॥९८।। "खेचरीलोचनानन्द ! भारतान्वयभूषण ! । हरिवाहन ! कल्पान्तं वह धीरोचितां धुरम्" ॥९९॥ चिराय प्रत्यभिज्ञाय तेनापि प्रणतस्ततः । अङ्गगजस्तमप्राक्षीद गवाक्षमुपवेशितः ॥१०॥ भ्रातस्त्वं प्रातरेष्यामीत्यालप्य हरिवाहनम् । गतस्तदा कुतो हेतोरियत्कालं विलम्बितः ॥१०१॥ कस्येदमद्भुतं चैत्यं कस्तिष्ठति मठोपरि । किञ्चिद् येन सहालप्य सहर्षस्त्वमवातरः ।।१०२।। गन्धर्वकोऽभ्यधाद् गुर्वी तावदास्तामियं कथा । क्रमेण सर्वं ज्ञाताऽसि प्रतिष्ठस्वाधुना पुनः ॥१०३॥ पश्य सिद्धमहाविद्यमद्यैवोधानमागतम् । प्राप्तविद्याधरैश्वयं भ्रातरं हरिवाहनम् ॥१०४॥ उत्थायाथ सहर्षोऽङ्गराजोऽपि जगतीगताः । प्रतिमाः प्राणमञ्जैनोर्नानारत्नविनिर्मिताः ॥१०५॥ गच्छन् गन्धर्वकादिष्टवर्मना वाजिनां व्रजम् । वीक्ष्य व्यमृशदश्रौषमेषां हेषारवं तदा ॥१०६॥ अथाऽस्यानन्दयन् कर्णौ गते+निरथेक्षणै[:] । अश्मंगर्भगृहं रम्भागृहं किल तदीक्षया ॥१०७॥ तत्रापश्यदसौ स्वर्णपट्टबन्धेन बन्धुरम् । वारनारीकलोल्लासलीलाललितचामरम् ॥१०८।। तल्पे शयितयाऽनल्पपद्मिनीपत्रकल्पिते । संवीज्यमानया शश्वदालीभिः कदलीदलैः ॥१०९॥ नवयौवनया रूपनि तरतिगर्वया ।
राजन्यकन्यया साकं जल्पन्तं हरिवाहनम् ॥११०॥.. १. च । २. ने । ३ ष्ट्या । ४ षी । ५ नं। ६ स्म ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146