Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 90
________________ ५] तिलकमञ्जरीसारः । अहो ! मोहात् प्रकम्पादीन् भावांस्तान् सात्त्विकानपि । त्रासरूपान् प्रकल्प्यासौ जल्पिता न मुहुर्मया ॥४२॥ कृतस्थितिः क्षणं द्वारि धारिता न कराम्बुजे । इत्याद्यनुशयानस्य सा शशामे निशा मम ॥४३॥ प्रातः पुनस्तामन्विष्यन्नुत्तरं तीरमागतः । आर्द्रामैक्षे पदश्रेणी वेणीमिव सरः श्रियः ॥४४॥ अनुव्रजंस्तामद्राक्षं पद्मरागमयं पुरः । सुरसद्म यदुधानं त्वत्सङ्गमफलप्रदम् ||४५ ॥ कृत्वा देवनमस्कारमारूढो मत्तवारणम् । पुनर्दिदृक्षयेवाहं तस्या एव मृगीदृशः ॥ ४६ ॥ अथ रूपवयः कान्तिगुणैस्तस्यां सहोदराम् । मन्दमोष्ठपुटस्पन्दलक्षमन्त्राक्षरोदयम् ॥४७॥ धृताक्षमालिकां ध्यानमुद्रामुकुलितेक्षणाम् । सथः स्नानार्द्रकेशालिं दिव्यवल्कलवाससम् ॥४८॥ पुरो नाभितनूजस्य कृतपूजस्य पङ्कजैः । बद्धपद्मासनामेकामैक्षे तापसकन्यकाम् ॥ ४९ ॥ कुलकम् । साऽथ ध्यानविधेरन्ते परिचारिकयाऽन्विता । सम्पूज्य जगतीबिम्बश्रेणि मम पुरोऽभवत् ॥ ५० ॥ अभ्यधाच्च महाभाग ! भाग्यैः प्राप्तोऽसि मादृशाम् । तत् पुनीहि जनस्याऽस्य वसतिं वनवासिनः ॥ ५१ ॥ इत्युक्ते तां प्रणम्याहमनुगच्छन् गतो मठम् । तत्रातिथ्ये कृते पृष्टस्तया वृत्तान्तमभ्यधाम् ॥५२॥ अथ मध्याह्नकृत्याय मामाहूय सहैव सा । अयासीत् सरसीं तस्यामावश्यकविधिं व्याघात् ॥ ५३ ॥ देवार्चनान्ते दिव्यानि भोजयित्वा फलानि माम् । कृताहाराऽवशिष्टैस्तैरुपविष्टा पुरो मम ॥ ५४ ॥ दर्शितोदारसौहार्दा तां सखेदमवादिषम् । शंस श्रयसि कं वंशमभिधानपदं च किम् १ || ५५ ॥ १ शसोम । २ष्ट । ३ क । ति. म. ६ Jain Education International 2010_05 For Private & Personal Use Only ४१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146