________________
५]
तिलकमञ्जरीसारः ।
अहो ! मोहात् प्रकम्पादीन् भावांस्तान् सात्त्विकानपि । त्रासरूपान् प्रकल्प्यासौ जल्पिता न मुहुर्मया ॥४२॥ कृतस्थितिः क्षणं द्वारि धारिता न कराम्बुजे । इत्याद्यनुशयानस्य सा शशामे निशा मम ॥४३॥ प्रातः पुनस्तामन्विष्यन्नुत्तरं तीरमागतः । आर्द्रामैक्षे पदश्रेणी वेणीमिव सरः श्रियः ॥४४॥ अनुव्रजंस्तामद्राक्षं पद्मरागमयं पुरः । सुरसद्म यदुधानं त्वत्सङ्गमफलप्रदम् ||४५ ॥ कृत्वा देवनमस्कारमारूढो मत्तवारणम् । पुनर्दिदृक्षयेवाहं तस्या एव मृगीदृशः ॥ ४६ ॥ अथ रूपवयः कान्तिगुणैस्तस्यां सहोदराम् । मन्दमोष्ठपुटस्पन्दलक्षमन्त्राक्षरोदयम् ॥४७॥ धृताक्षमालिकां ध्यानमुद्रामुकुलितेक्षणाम् । सथः स्नानार्द्रकेशालिं दिव्यवल्कलवाससम् ॥४८॥ पुरो नाभितनूजस्य कृतपूजस्य पङ्कजैः । बद्धपद्मासनामेकामैक्षे तापसकन्यकाम् ॥ ४९ ॥ कुलकम् । साऽथ ध्यानविधेरन्ते परिचारिकयाऽन्विता । सम्पूज्य जगतीबिम्बश्रेणि मम पुरोऽभवत् ॥ ५० ॥ अभ्यधाच्च महाभाग ! भाग्यैः प्राप्तोऽसि मादृशाम् । तत् पुनीहि जनस्याऽस्य वसतिं वनवासिनः ॥ ५१ ॥ इत्युक्ते तां प्रणम्याहमनुगच्छन् गतो मठम् । तत्रातिथ्ये कृते पृष्टस्तया वृत्तान्तमभ्यधाम् ॥५२॥ अथ मध्याह्नकृत्याय मामाहूय सहैव सा । अयासीत् सरसीं तस्यामावश्यकविधिं व्याघात् ॥ ५३ ॥ देवार्चनान्ते दिव्यानि भोजयित्वा फलानि माम् । कृताहाराऽवशिष्टैस्तैरुपविष्टा पुरो मम ॥ ५४ ॥ दर्शितोदारसौहार्दा तां सखेदमवादिषम् । शंस श्रयसि कं वंशमभिधानपदं च किम् १ || ५५ ॥
१ शसोम । २ष्ट । ३ क । ति. म. ६
Jain Education International 2010_05
For Private & Personal Use Only
४१
www.jainelibrary.org