________________
४
.
श्रीपल्लीपालवंशोयधनपालविरचितः
[प्र० ततस्तामभ्यधां भीरु ! का त्वमेकाकिनी बने । मा स्म भैर्नास्मि दैत्यादिरिह त्वां हर्तुमागतः ॥२८॥ भूगोचरोऽहमारोहत् कीर्तेरात्रिदशालयम् । मेघवाहनभूभतुर्नन्दनो हरिवाहनः ॥२९॥ वीणावशीकृतं व्यालमारूढोऽथ प्रविश्य तम् । हृतः केनाप्यनाप्तेन क्षिप्तश्चात्र सरोवरे ॥३०॥ तीर्णस्ततः पदश्रेणीमनुगच्छन्निहागमम् । त्वदालोकाच्च लोलाक्षि! लब्धं लोचनयोः फलम् ॥३१॥ साम्प्रतं यातुमिच्छामि पृच्छामि त्वामिदं पुनः । कोऽयं गिरिः सरः कस्य को देशः कोऽस्य शासिता ॥३२॥ इत्युक्ता सा गतातङ्का क्षणं स्थित्वा नताननम् । अदत्वैवोत्तरं बाला चचालाभिमुखं मम ॥३३॥ निर्गन्तुकामा वामाङ्गपक्षस्था चाक्षिपन्मयि । मोहाह्लादकरं चक्षुर्विषमिश्रमिवामृतम् ॥३४॥ किञ्चिद्दत्तावकाशा च मया ज्ञाताशयेन सा । अङ्गेनाङ्गं स्पृशन्ती मे द्वारि तिर्यग् विनिर्ययौ ॥३५॥ नितम्बमुत्तरीयेण स्वेदसंदष्टवाससम् । प्रावृण्वती व्यतीयाय ममाऽसौ दृक्पथं क्रमात् ॥३६॥ प्रस्थितोऽहं ततो हन्त ! वाङ्मात्रेणापि नैतया । सम्भावित इति क्लिष्टमनास्तस्यामनादरः ॥३७॥ स्वदेशदिशि लग्नोऽहमिदं वनमिदं सरः । कन्याऽप्येषा पटालेख्यसन्निभेति व्यभावयम् ॥३८॥ तां प्रेमसौरभाकृष्टो व्याघुटयालीव मालतीम् । अन्वेष्टुमभ्रमं व्यर्थयत्नश्चाभ्यसरं सरः ॥३९॥ धौताहिश्च विधि सान्ध्यं विधायास्वादयं मृदु । नलिनीकन्दलीः काश्चिदपां च प्रसृतीरपाम् ॥४०॥ प्रियासंसर्गसुभगे तस्मिन्नेलालतागृहे । पल्लवैः कल्पितां शय्यामधिशय्येत्यचिन्तयम् ॥४१॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org