________________
तिलकमञ्जरीसारः । नूनं केनापि दिव्येन सिन्धुरोऽयमधिष्ठितः । भूमिद्विपानामाकाशगमनं कथमन्यथा ॥१४॥ सद याति नातिदूरेऽसौ यावत् तावन्निवर्तये । कृत्वेति चेतसि क्षिप्रं क्षुरिकामुदखानिषम् ॥१५॥ विलोक्याशनिकल्पां तां ममज्ज स गजः क्षणात् ।
अदृष्टपारे सरसि मैनाक इव सागरे ॥१६॥ तिरोहिते च तत्राऽहं गाहमानो महासरः । तीरमासादयन् नीरान्निःक्रम्येति व्यचिन्तयम् ॥१७॥ अहो ! संसारवैचित्र्यं यदाऽsसं सैन्यसंयुतः । अथैवाहं सहायातहस्तिनाऽपि विनाकृतः ॥१८॥ विभाव्येति निराशश्च निजदेशस्य दर्शने । यामादि वीक्षितुं काष्ठां स्वीकृत्यैकामथाऽचलम् ॥१९॥ सुव्यक्ताः सैकते स्वल्पप्रमितीललिताकृतीः । आलोकयामि स्म पदश्रेणीरेणीदृशां पुरः ॥२०॥ तासु चैकां निरीक्ष्याहं शुभलक्षणसाक्षिणीम् । अनुवजन्नथाऽपश्यमेकमेलालतागृहम् ॥२१॥ दृष्ट्वा तद् द्रुतहेमाभप्रभासम्भारपूरितम् । द्वारि विस्मयमानोऽहमस्थामन्तरमानिव ॥२२॥ क्षिप्तचक्षुरथ ज्योतिःपरागपरिवेषिताम् । पादसंवादिताम्भोजां रम्भारम्योरुविभ्रमाम् ॥२३॥ दुर्वासवर्णरोमालिं स्तनस्तबकबन्धुराम् । लतासजातीयभुजां बन्धूकमधुराधराम् ॥२४॥ नीलोत्पलसपत्नाक्षी साक्षादिव वनश्रियम् । पुष्पावचायिनी बालामालोक्यैकामतर्कयम् ॥२५|| कुलकम् । दिवाऽपि व्यापि तन्वाना महः काऽपि 'महौषधी । अनङ्गोज्जीवनायाऽसौ विदधे वेधसा ध्रुवम् ॥२६॥ साऽपि मद्दृष्टिनिक्षेपवेपमानवपुलता ।
उद्भ्रान्तभ्रमरश्रेणिकल्पा व्यापारयद् दृशः ॥२७॥ १ ष्ठ्या ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org