________________
अथ पञ्चमं प्रयाणकम् । ऊरुसन्दंशदष्टाधोवस्त्रस्तत्रास्य मङ्गलम् । तनुस्तननिरालम्बहारा वाराङ्गनास्ततः ॥१॥ स्नातेन सुहृदा दिव्यवस्त्रालङ्कारधारिणा । अन्यैश्च खेचरैः साकमाहारमकरोदसौ ॥२॥ विधायाथ विध' सान्भ्यमध्यास्यालेख्यशालिकाम् । मित्रान्मार्गागमोदन्तं पृष्ट्वा सुष्वाप स क्षणम् ॥३॥ प्रातरुत्थाय वैताढयमारूढः प्रौढकौतुकः ।। पश्यतोऽस्य तदुद्देशानिदं बन्दी पुरोऽपठत् ॥४॥ "क्रान्तस्य खेचरैदृश्यं तुल्याव्यक्ष्माभृतोऽस्य किम् । देव ! दृश्योऽसमः ६माभृत् त्वमेवाक्रान्तखेचरः" ॥५॥ व्याजहाराङ्गराजोऽथ "सखे ! साध्वयमभ्यधात् । को हि नामात्र दोर्मात्रसहायः स्वल्पवासरैः ॥६॥ अन्यो निन्ये वशं विद्या विद्याधरकुलानि च । तदाख्याहि तदा व्यालः स त्वां हृत्वा गतः कुतः ॥७॥ कुतः स प्रेषितो लेखः कथं विद्याः प्रसाधिताः । का वा सर्वाङ्गललिताकारा सा राजकन्यका" ॥८॥ कुलकम् । इति हृष्टसुहृत्पृष्टः प्राह स्म हरिवाहनः । "अवधाने घियं बन्धो ! बधानाभिदधेऽधुना ॥९॥ मयाऽऽरूढे जवाद् गत्वा त्वत्समक्षं समक्षमाम् । व्योमोत्पपात पक्षीव स क्षीबकरटी क्षणात् ॥१०॥ पश्यन्नुच्चैर्गते तस्मिन्नश्मतुल्यकुलाचलाम् । कुल्यातुल्यापगां दूर्वाखकारवनां भुवम् ॥११॥ समीपाकौशुसम्पर्कात् ताप्यमानतनुः क्वचित् । क्वचिदम्बुमुचां चक्रैः कल्पितातपारणः ॥१२॥ सिद्धाङ्गनाभिः सातकं मुच्यमानपथः क्वचित् । एकशृङ्गशिरच्छत्रं नभसो भागमागतः ॥१३॥
१
धि । २
ध्य ।
३
द्या । १ कं । ५ पा।
____Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org