________________
३७
तिलकमजरीसारः। विराधनामैको' नर्मसचिवः सूचयत्ययम् । तद् वयं तत्र गच्छामः पश्य त्वमपि मातरम्" ॥१२४॥ इत्थं कथञ्चिदापृच्छय परिच्छदपरिष्कृतः । विष्टराद् विष्टपानन्दिबन्दिघोषैः सहोत्थितः ॥१२५॥ सह सिंघलभूपालसुतेनारुह्य हस्तिनीम् । स क्षणादन्तरिक्षण सञ्चरखेचरेश्वरः ॥१२६॥ पश्यन् विद्याधरैविद्यासिद्धयेऽध्युषितद्रुमाम् । अन्तरालाटवीमेकशृङ्गाद् वैताढयमागमत् ॥१२७॥ तत्र तन्वानमाह्वानमिवोद्भूतध्वजांशुकैः । पुरमापोत्तरश्रेणिमौलिं गगनवल्लभम् ॥१२८॥ सोपेन्द्रोऽयं] किमिन्द्रः किमु सह मधुना मूर्तिमानेष कामः किं वा रामः सुमित्रा सुतसहित इति भ्रान्तिसंक्रान्तिभाजा । पौरस्त्रैणेन कौतूहलतरलदृशा लास्यलीलाश्रितेन
प्राविक्षत् प्रेक्ष्यमाणः सममथ सुहृदा राजसौधं स धीरः ॥१२९।। [इति श्रीतिलकमज्जरीसारे] पुरप्रवेशो नाम बतुर्थो विश्रामः ॥
- [इति चतुर्थ प्रयाणकम ]
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org