________________
३
श्रीपल्लीपालवंशीयधनपालविरचित
[प्र० "सहृद् देव ! तवायातः” इति गान्धर्विकी गिरम् । श्रुत्वाऽऽसनादथोत्तस्थौ सहर्ष हरिवाहनः ॥१११॥ सद्योऽभिषेकनिर्माणनिर्मलाङ्गविषङ्गिणा । वनानिलचलद्वल्लीपरागेणाङ्गरागिणम् ॥११२॥ क्लप्तकल्पलतापट्टबन्धमौलिमनोहरम् । सदृक्षमात्मनोऽदाक्षीच्चन्द्रकेतुसुतं पुरः ॥११३।। अनभ्रवृष्टिकल्पेन तेन तदर्शनेन सः । उल्लसत्पुलकाङ्कुरो दूरात् प्रत्युद्ययौ ततः ॥११४॥ पादानतं तमुत्थाप्य सादरं सुहृदं हृदि । प्रवेशयन्निवालिङ्गय विष्टरार्द्ध न्यवेशयत् ॥११५॥ ऊचेऽथ राजपुत्री ता; 'देवि ! सिंहलशासितुः । चन्द्रकेतोनरेन्द्रस्य' सूनुरन्यूनविक्रमः ॥११६॥ वरो मलयसुन्दर्यास्त्वद्भगिन्याः स्वयंवृतः । अयं समरकेतुः स द्वितीयं हृदयं मम ॥११७।। यदागमनसम्भ्रान्तचित्तेनान्तरितो मया । पुण्यप्राप्यस्तवाप्यास्यचन्द्रालोकक्षणः क्षणम्" ॥११८॥ इत्युक्ते प्रणता तेन सादरं तत्र देव्यपि । नेत्राञ्चलं वितेनेऽत्रान्तरे वेत्रायुधोऽभ्यधात् ॥११९॥ "द्वारेऽस्ति कञ्चुकी देव्या प्रेषितः पत्रलेखया । सातङ्कया तवाकये प्राणत्यागस्पृहाम्" इति ॥१२०॥ मुखन्यस्तेक्षणा स्थित्वा क्षणमप्राप्य चोत्तरम् । गता साऽथ जगौ कश्चिदार्यामेतां सरःस्थितः ॥१२१॥ "तव राजहंस ! हंसीदर्शनमुदितस्य विस्मृतो नूनम् । सरसिजवनप्रवेशः समयेऽपि विलम्बसे तेन" ॥१२२॥ श्रुत्वा कुमारस्तामूचे "देवि ! हंसापदेशतः ।
लानं मम प्रवेशाय विद्याधरपुरेऽधुना ॥१२३॥ , नी । २ Borrowed from the original prose of Kavi Dhanapal.
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org