Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 91
________________ [प्र० श्रीपल्लोपालवंशीयधनपालविरचितः कश्चक्रे वल्कलाधीनां तनुं चीनांशुकोचिताम् ? । न ते' वयसि विद्वेषः किमेष विषयेषु ते ! ॥५६॥ तस्या मयैवमुक्ताया गलिताश्रुकणावलिः । प्राग्दशां दर्शयन्तीव हारश्रियमशिश्रियत् ॥५७|| मदर्पिताम्बुधौताक्षी सा जगाद सगद्गदम् । श्रूयतां मे महाभाग ! प्रागवस्था व्यथामयी ॥५८॥ अस्ति काञ्चीति काञ्चीव पृथिव्याः प्रथिता पुरी । तस्यां तेजोनिधिर्भूपरत्नं कुसुमशेखरः ॥५९॥ तस्य गन्धर्वदत्तेति देवी प्रेमैकमन्दिरम् । दत्तदुःखातिरेकाहं तयोरेका तनूद्भवा ॥६०॥ आदिष्टं वसुरातेन ज्ञानिना मम जन्मनि । पुण्यपात्रमियं कन्या यश्चैनां परिणेष्यति ॥६१॥ चक्रिणा न्यस्तराज्यश्रीः स प्रभुत्वं करिष्यति । दृष्टस्तातोऽथ मां चक्रे नाम्ना मलयसुन्दरीम् ॥६२॥ वर्द्धमाना कलाभ्यासपरा लेखेव वैधवी । क्रमादहं स्मरोन्मादपदं यौवनमासदम् ॥६३॥ निद्राणा चन्द्रशालायामेकदा क्षणदामुखे । अकस्मादस्मि दिव्येन नान्दीनादेन बोधिता ॥६४॥ उन्निद्रचक्षुरद्राक्षमात्मानमतिविस्मिता। कोणैकदेशे माणिक्यनिर्माणस्य जिनौकसः ॥६५॥ पार्श्वे च रुचिराः कन्याः काश्चिदत्यानतोन्मुखीः । हस्तन्यस्तमुखीः काश्चित् काश्चित् कौतूहलाकुलाः ॥६६॥ [च]किताऽचिन्तयं चाहमहो ! किमिदमद्भुतम् । स्वप्नः किमिन्द्रजालं किमिन्द्रियाणां भ्रमो नु किम् ? ॥६॥ १ ने। २ च । ३ The choice of this word is rather unhappy due to its similarity with the derivative from the word 'Vidhava'. १ नो। Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146