Book Title: Tilakmanjarisara
Author(s): Pallipal Dhanpal, N M Kansara
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 80
________________ ४] १ तिलकमञ्जरीसारः । दानधारानुसारेण सुदूरमनुगम्य तम् । खिन्नाश्वः सायमावासं विदधे सिन्धुरोधसि ॥४२॥ मित्रे विमृशतस्तानि तान्यनिष्टानि सा निशा । तस्याधिना सह स्पर्द्धा दधतीवाभवद् गुरु ||४३|| प्रातः प्रतिदिशं पत्तीनादिश्य सुहृदीक्षणे । वर्त्मद्रुमतले पान्थान् स पृच्छन्ननयद् दिनम् ॥४४॥ तं दिने श्वस्तनं सायमायाताः पत्तयोऽवदन् । दृष्टो दुष्टगजोऽस्माभिः स जगत्तिलकस्तु न ॥४५॥ निशम्य तेषां साश्राणां वज्रपातसमं वचः । सिंहलेन्द्रसुतः सिंहसत्त्वोऽपि विललाप सः ॥४६॥ हा कुमार ! कुलाधार ! हा विद्वन् ! हा सुहृत्प्रिय ! | कुत्रासि दर्शनं मित्र ! देहि मे हरिवाहन ! || ४७॥ एवं स विलपन्नेव सहसा मोहमागमत् । अत्रान्तरे नरेन्द्राणां वृन्दमाक्रन्दमादधे ॥४८॥ मोहान्ते सिंहलाधीशसुतश्चैतदचिन्तयत् । भ्रातर्जातो विसंवादस्तासां लक्ष्मीगिरामपि ॥ ४९ ॥ प्रभावोऽपि गतश्चक्रवर्त्तिलक्षणलग्नकः । यत् त्वमप्यापदं प्राप तस्मात् करिटिकीटतः ॥ ५० ॥ यद्वा सर्वे ममाभाग्यमकरोदिति रोदिति । एवं विद्राणनिद्रस्य जगामैतस्य यामिनी ॥ ५१ ॥ यान्ति नान्तरिताः कालात् पुनर्नेत्रपथं कथम् ? | इतीवोर्ध्वकरः शंसद्रविराविरभूत् पुरः ॥ ५२ ॥ प्रातश्चिताप्रवेशाय मित्रानुगमनोत्सुकः । चचालायमथागत्य व्याहरल्लेखहारकः ॥५३॥ इमं कमलगुप्तेन कुमारे क्षेमसाक्षिणम् । समर्प्य प्रहितोऽस्मीति तत्पुरो लेखमक्षिपत् ॥५४॥ अग्रहीदङ्गराजस्तमानन्दमिव देहिनम् । वाचयित्वा च पप्रच्छ केनानीतोऽयमित्यमुम् ||५५ || स्व । Jain Education International 2010_05 For Private & Personal Use Only ३१ www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146