________________
४]
१
तिलकमञ्जरीसारः ।
दानधारानुसारेण सुदूरमनुगम्य तम् । खिन्नाश्वः सायमावासं विदधे सिन्धुरोधसि ॥४२॥ मित्रे विमृशतस्तानि तान्यनिष्टानि सा निशा । तस्याधिना सह स्पर्द्धा दधतीवाभवद् गुरु ||४३|| प्रातः प्रतिदिशं पत्तीनादिश्य सुहृदीक्षणे । वर्त्मद्रुमतले पान्थान् स पृच्छन्ननयद् दिनम् ॥४४॥ तं दिने श्वस्तनं सायमायाताः पत्तयोऽवदन् । दृष्टो दुष्टगजोऽस्माभिः स जगत्तिलकस्तु न ॥४५॥ निशम्य तेषां साश्राणां वज्रपातसमं वचः । सिंहलेन्द्रसुतः सिंहसत्त्वोऽपि विललाप सः ॥४६॥ हा कुमार ! कुलाधार ! हा विद्वन् ! हा सुहृत्प्रिय ! | कुत्रासि दर्शनं मित्र ! देहि मे हरिवाहन ! || ४७॥ एवं स विलपन्नेव सहसा मोहमागमत् । अत्रान्तरे नरेन्द्राणां वृन्दमाक्रन्दमादधे ॥४८॥ मोहान्ते सिंहलाधीशसुतश्चैतदचिन्तयत् । भ्रातर्जातो विसंवादस्तासां लक्ष्मीगिरामपि ॥ ४९ ॥ प्रभावोऽपि गतश्चक्रवर्त्तिलक्षणलग्नकः । यत् त्वमप्यापदं प्राप तस्मात् करिटिकीटतः ॥ ५० ॥ यद्वा सर्वे ममाभाग्यमकरोदिति रोदिति । एवं विद्राणनिद्रस्य जगामैतस्य यामिनी ॥ ५१ ॥ यान्ति नान्तरिताः कालात् पुनर्नेत्रपथं कथम् ? | इतीवोर्ध्वकरः शंसद्रविराविरभूत् पुरः ॥ ५२ ॥ प्रातश्चिताप्रवेशाय मित्रानुगमनोत्सुकः । चचालायमथागत्य व्याहरल्लेखहारकः ॥५३॥ इमं कमलगुप्तेन कुमारे क्षेमसाक्षिणम् । समर्प्य प्रहितोऽस्मीति तत्पुरो लेखमक्षिपत् ॥५४॥ अग्रहीदङ्गराजस्तमानन्दमिव देहिनम् । वाचयित्वा च पप्रच्छ केनानीतोऽयमित्यमुम् ||५५ ||
स्व ।
Jain Education International 2010_05
For Private & Personal Use Only
३१
www.jainelibrary.org