________________
३२
श्रीपल्लीपालवंशीयधनपालविरचितः
स चालपत् कुमारापहारवार्ताश्रुतेः शुचा । नताननेन सेनान्या क्षितौ लेखोऽयमीक्षितः ॥५६॥ विस्मतः स तमादाय कस्यायमिति चिन्तयन् । कुमारनाम तत्पृष्ठ दृष्ट्वा स्वयमवाचयत् ॥५७॥ स्वस्त्यव्या महाराजतनयो हरिवाहनः । कल्याणशाली लौहित्यकूलान्ताद् वासिते बले ॥५८॥ अङ्गाधिराजं समरकेतुं प्रीतिपुरःसरम् । तथा कमलगुप्तादिराजन्यानादिशत्यदः ॥५९॥ दिनानि कतिचित् तावदत्रैव स्थीयतां यथा । ममापहारवार्ता न जानीतः पितराविति ॥६०॥ संवृत्य तं चमूनेता तदानेतारमैक्षत । तमपश्यन् विमृश्याथ प्रतिलेखं तदाऽलिखत् ॥६१॥ मुक्त्वा चैतं क्षितावूचे सुरो वा खेचरोऽथ वा । यः कश्चिदानयल्लेखं तेनायमपि नीयताम् ॥६२॥ एवमुक्ते शुकः कश्चिदुत्तीर्य सहकारतः । चञ्च्चा गृहीत्वा तं लेखमुदीच्यामगमद् दिशि ॥६३॥ सविस्मयः क्षणं स्थित्वा सेनानी प्राहिणोन्मया । सहसा साहसाशङ्की लेखमेतं तवान्तिके ॥६४॥ इत्युक्ते परितोष्यैनमङ्गराजः सराजकः । वासरत्रितयात् कृत्वा भोजनं शयने ययौ ॥६५॥ धातुद्रवाक्षरैस्ताडीपत्रे स्वर्णावचूर्णितम् । विभाव्य भूयस्तं लेख स चकारेति चेतसि ॥६६॥ कुमारः क्वापि दिव्येऽस्ति प्रदेशे न तु शंसितः । नामतोऽसौ ममानेनानुपातक्लेशभीरुणा ॥६७॥ अहो ! मोहान्न विज्ञातं देशे यदविशेषिते ।
अटवीः पर्यटन्नेष विशेषक्लेशमेष्यति ॥६८॥ है। २ व्ये ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org