________________
तिलकमञ्जरीसारः। अन्वेषयाम्यमुं हित्वा वैदिहीमिव वाहिनीम् । मृगाधमहृतं मित्रं सौमित्रिरिव राघवम् ॥६९॥ अथो निशीथे कान्तारं प्रतस्थे सिन्धुराभ्वना । उल्लासितासिलाङ्गुलः सिंहः सिंहलभूपभूः ॥७॥ मावैतादयगिरेगाढ मित्रमन्वेष्टुमुद्यतः । स चक्रामाटवी भीमा फलाहारो गुहाशयः ॥७१॥ मार्गे मित्रवरो नाम कामरूपाधिपानुजः । तं विलोक्यालपद् यूयमित्थमेकाकिनः कथम् ॥७२।। विजने युवराजोऽपि छलान्तं सर्वमभ्यधात् । कृतोपचारस्तेनाथ पुनर्गन्तुं प्रचक्रमे ॥७३।। अथानेकगिरिग्रामपुरपल्लीविलयन् । षभिर्मासैर्महाशैलमेकशृङ्गं जगाम सः ॥७४॥ मज्जद्विद्याधरीवक्त्रवर्द्धिष्णुकनकाम्बुजम् । ददर्शादृष्टपाराख्यं तत्पृष्ठेस महासरः ॥७॥ ग्रीष्मे भीष्मातपक्लान्तः स्नात्वा स नरकुञ्जरः । पयस्तत्र पपौ वक्त्रसञ्चरत्करपुष्करः ॥७६॥ अथास्य तीरवानीरमन्दिरे पत्रसंस्तरे । स्थितस्यारब्धनमॆव निद्रा नेत्रे न्यमीलयत् ॥७७।। पारिजातमसौ स्वप्नेऽपश्यत् कुसुममांसलम् । वाञ्छितालिङ्गनं कल्पलतया ललिताङ्गया ॥७८॥ प्रबुद्धश्चाचिराद् भावि सृहृदः स्मेरसम्पदः । दर्शनं निर्णयन्नेष हेषारवमथाशृणोत् ॥७९॥ ससम्भ्रमः स निर्गत्य सर्वतश्चक्षुरक्षिपत् । तीरे तरुचितेऽश्वीयमपश्यन्नित्यचिन्तयत् ॥८०॥ तीरं सकलमालोके यदि वा किमनेन मे । करोम्यारब्धमेवार्थमिति भूयोऽभवत् पथि ॥८१॥ दक्षिणेन क्षणे तत्र स्पन्दमानेन बाहुना।
कृतोत्साहः पथि क्रामन्नारामं दिव्यमैक्षत ॥८२॥ . 1 क्र । २ ष्टे । ति. म, ५
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org