________________
३४
श्रीपल्लीपालवंशीयधनपालविरचितः
अतर्कयच्च नो कस्य प्रीतिं पल्लवयत्ययम् । भेजेऽनपेक्षितानेहाः स्नेहातुगुणोऽपि यम् ॥ ८३ ॥ ददृशे रत्नरोचिष्णु तदन्तः सञ्चरिष्णुना । कल्पद्रुमण्डलं तेन वनश्रीकुण्डलोपमम् ॥ ८४ ॥ तन्मध्ये मध्यमाणिक्यमिवोन्नतिविवर्जितम् । ददर्श देवतास पद्मरागमयं ततः ॥ ८५ ॥ तद् वीक्ष्याद्भुतनिर्माणं पुण्यकर्माणमुद्यमी । आत्मानं मन्यमानोऽसौ तदभ्यन्तरमभ्यगात् ॥ ८६ ॥ सविस्मयस्ततोऽपश्यदंसविश्रंसिकुन्तलाम् । श्रीमन्नाभेयनाथस्य प्रतिमां मणिसम्भवाम् ||८७|| अमन्दानन्द बाष्पाम्बुसंसेकादिव साकुराम् । भक्ति रोमाञ्चलक्ष्येण बिभ्राणः प्राणमच्च ताम् ॥ ८८ ॥ तुष्टावाथ "जगन्नाथ ! संसारक्षरवारिधौ । ऋते त्वदर्शनादन्यदमृतप्रदनामृतम् ॥ ८९ ॥ अस्मादेव यतो देव ! सङ्कल्पित फलप्रदः । पुण्यकल्पद्रुमः प्राणिसन्दोहस्य प्ररोहति ॥९०॥ स्तुत्वेति चक्षुराक्षिप्य कथञ्चित् तीर्थकृन्मुखात् । चैत्यस्यालोकयद् गर्भहर्यान्निःक्रम्य रम्यताम् ॥९१॥ गवाक्षे दक्षिणे वीक्ष्य प्रशस्ति विशदाक्षराम् । अचिन्तयच्च केनेदं कारितं जिनमन्दिरम् ॥९२॥ अपि प्रशस्तावेतस्यामेतस्यार्थस्य सूचकः । लिपिभ्योऽष्टादशभ्योऽपि कोऽपि वर्णक्रमोऽपरः ॥ ९३ ॥ शक्यस्तकर्कयितुं नायं यदि वा किमनेन मे । ज्ञात्वाऽपि कथयिष्यामि कस्याग्रे सुहृदं विना || ९४ || एवं विमृशतस्तस्यामृतस्यन्द इवाविशत् । किञ्चिद्व्यक्तीभवद्वर्णः कर्ष्णयोरध्वनि ध्वनिः ॥ ९५ ॥ अचिन्तयत् तपः श्लोक इव केनापि पठ्यते । मित्रनामाङ्कितः सोऽपि यते बत ! किं न्विदम् ॥९६॥
१ At an unusual time. । २ मणिमयीभवाम् । ३ त्वि ।
Jain Education International 2010_05
For Private & Personal Use Only
[ प्र०
www.jainelibrary.org