________________
३०
श्रीपल्लीपालवंशीयधनपालविरचितः
[प्र०
विजहारान्वहं चायमायल्लककृतव्यथः । अनाप्तसैन्यसौहित्यलौहित्योपा[-]तकानने ॥२८॥ एकदा प्रातरायातं तत्र सालतलस्थितम् । वीणाविनोदलीनं तं गजाध्यक्षो व्यजीज्ञपत् ॥२९॥ अद्य क्षेपान्ते वन्येभमदगन्धप्रबोधितः । प्रविवेश वनं वैरियमदण्डाभिधो गजः ॥३०॥ न पार्यते स चानेतुं हस्त्यारोहैरनुद्रुतैः । द्रुतमादिश्यतां तेन कोऽपि साधनिकोऽधुना ॥३१॥ तन्निशम्य कुमारोऽपि समारोहत् तुरङ्गमम् । मुक्त्वा कमलगुप्तं च सैन्ये तद्वनमव्रजत् ॥३२॥ सोऽपश्यदवशं तत्र सिन्धुरं तं मदोद्धरम् । ऊर्वीकृतकरोच्चण्डमुद्यद्दण्डमिवान्तकम् ॥३३॥ वार्यमाणोऽप्ययं वारंवारं समरकेतुना । निकुञ्ज कुञ्जरासन्नमुत्तीर्य तुरगादगात् ॥३४॥ लतावृतः पृथक्तन्त्रीस्थानमित्रीकृताङ्गुलिः । वीणामवादयत् तत्र व्यजितग्राममूर्च्छनम् ॥३५॥
आकर्ण्य स्तब्धकर्णोऽस्याः क्वणितं कूणितेक्षणः । द्विपः सुप्त इव श्रान्त इवोत्कीर्ण इवाभवत् ॥३६॥ तं चैवमचलं मत्वा विगलन्मदनिर्झरम् । दन्तदत्तांहिरारोहत् कुमारो हस्तिनं ततः ॥३७॥ त्याजितः सुखनिद्रां तां तेनोच्चैः स्कन्धबन्धुना । उदन्मार्गमगात् कुम्भीकुम्भकर्ण इवाहवम् ॥३८॥ अङ्कुशोऽङ्कुश इत्येवं व्याहारं हारिवाहनम् । निशम्य साङ्कुशाः पृष्ठे' प्रतीहाराः प्रतस्थिरे ॥३९॥ एष यात्येष याति दागितो गत इतो गतः । इत्युदस्तैकहस्तैस्तैर्दीमानस्तिरोदधे ॥४०॥ ततः समरकेतुस्तं गज नीतनृपाङ्गजम् । महाजवव्रजद्वाहै राजन्यैः सममन्वगात् ॥४१॥ ।। ३ ज । ४ वो। ५,ष्टे ।
१ वि । २
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org