________________
तिलकमञ्जरीसारः। स्थितश्च तस्मिन्नारामे तामेवालेख्यबालिकाम् । निर्वण्णयंश्चिरं तस्थौ चित्रविद्भि[विचारयन् ] ॥१४॥ ततः क्रीडादिमारुह्य तमायान्तं नभश्चरम् । दिदृक्षुः स क्षणं तस्थौ यथाऽक्के लग्नसाधकः ॥१५॥ अनागते च गन्धर्वे किञ्चिन्म्लानमुखाम्बुजः । अवातरद् गिरेस्तस्मादन्तरिक्षाच्च भास्करः ॥१६॥ आगत्य सदने सायं शयने विनिविश्य सः । दध्यौ विद्याधराधीशसुतातन्मयमानसः ॥१७॥ तामेवादर्शयत् तस्य लिखितां दिक्षु सर्वतः । खर्वयन्निव गन्धर्वगर्व पञ्चेषुचित्रकृत् ॥१८॥ इत्थं साऽपि ययौ तस्य कुमारस्य निशीथिनी । तथैवोधानमन्येधुरपि सोऽगच्छदुत्सुकः ॥१९॥ इत्यस्य दिवसा यान्तोऽनायाते तत्र खेचरे । सङ्गमाशां कृशीचक्रुश्चक्रसेनासुतां प्रति ॥२०॥ प्रथितां ग्रीष्मकामाभ्यामथाऽस्य दवथुव्यथाम् । अपाकर्तुमिव प्रावृट् प्रावृणोद् गगनं घनैः ॥२१॥ प्रीष्मान्ते च शतः शीतोपचारे विरते सति । सा गोपितेङ्गितस्यास्य सन्तापं प्रत्युतातनोत् ॥२२॥ ततः पयोधरोत्सेधवत्यां तरितया तया । तुल्यातिरिव तस्याथ शरत्कालः समागमम् ॥२३॥ ततस्तिलकमार्याः सन्ततस्मृतिजन्मना । आधिना बाधितः सौधे कुमारः स्थातुमक्षमः ॥२४॥ आपृच्छय तातमुद्दिश्य देशदर्शनकौतुकम् । मित्रैः समेतः साकेतनगरान्निरगादसौ ॥२५॥ युग्मम् । तं प्रयान्तमविश्रान्तं प्रतिदेशं तदीश्वराः । उपेत्यानुपदं प्रीताः प्रणम्यानुप्रतस्थिरे ॥२६॥ व्यतीतकामरूपोऽपि कामरूपान् जगाम सः ।
प्राग्ज्योतिषपतिप्रीत्या सैन्यं तत्र न्यवेशयत् ॥२७॥ १ चि। २ य । ३ म । १ सो । ५ उपदा ।
__Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org