________________
अथ चतुर्थ प्रयाणकम् । स तत्राह्निकमहाय विधाय विधिमुन्मनाः । ध्यानद्वारमिवोपांशु पटं तमुदजीघटत् ॥१॥ खेचरेन्द्र सुतां पश्यंस्तत्र चित्रलिपिस्थिराम् । चिरं तदनुवृत्त्येव चित्रन्यासस्थिरोऽभवत् ॥२॥ स्फूर्ती मन्दायमानायां सायं नयनपद्मयोः । कथञ्चिदपि संवृत्त्य पटं राजकुलं ययौ ॥३॥ तातमाराधयत् तत्र क्रमेण जननीमपि । विधेयं न हि धीराणां महाधिरपि बाधते ॥४॥ अथावसथमागत्य शयनस्थानमास्थितः । असौ गन्धर्वकालापान् स्मारं स्मारमचिन्तयत् ॥५॥ प्रज्ञप्तिविद्ययाऽऽदिष्टं' यन्नास्याः खेचरात्मजः । भविष्यति वरः किन्तु भूमिवासवसम्भवः ॥६॥ इति सत्स्वपि पुष्पेषुरूपेषु नृपसूनुषु । अहं तस्याः स्वमेवोहे मोहेन प्रेमभाजनम् ॥७॥ किमेष्यति स विद्याभृत्पुत्रः प्रतिकृतिर्मम । लिखिष्यति कृतार्थी च करिष्यति तदीक्षणात् ॥८॥ तामिवात्र गुणैस्तत्र गमयिष्यति मामपि । ततो नु मय्ये[वोत्कं]पा तं पुनः प्रेषयिष्यति ॥९॥ इत्याधनल्पसङ्कल्पभेदैर्मे दुरितारतेः । जगाम शतयामेव त्रियामाऽप्यस्य कामिनः ॥१०॥ अनुत्सुक इव प्रातर्देवार्चादि विधाय सः ।। आदेश्यानादिशद् गन्तुं तदेवोद्यानमुद्यतः ॥११॥ आगमिष्यति गन्धर्व इत्यर्द्धगदितं वचः । अपालयत् तदा दृष्टिं निक्षिप्य परिवर्द्धके ॥१२॥ अयमागच्छतीत्युक्त्वा तेनानीतं तुरङ्गमम् ।
मनः खमिव जङ्घालमारुह्योपवनं ययौ ॥१३॥ १ हि । २। जाः । ३ । स । १ ५। ५ निक्षय परिबद्रके। ६ त्यक्त्वा
।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org