________________
तिलकमजरीसारः।
२
प्रहितोऽसि परं देव्या निजतातस्य सन्निधौ । विचित्रवीर्यदेवस्य सुवेलाद्रौ प्रयोजनात् ॥१२७॥ तस्य विधाधरेन्द्रस्य विज्ञाप्यं मद्वचोऽप्यदः । मध्यरत्नाकरं रत्नकूटाद्रौ देवमन्दिरे ॥१२८॥ रात्रौ विहितयात्रेण तत्र देवेन या तदा । श्रुता गन्धर्वदत्तेति नामसाम्यभ्रमस्पृशा ॥१२९।। सा सैव पुत्री देवस्य प्रिया काञ्चीपुरीपतेः । यन्मयाऽऽश्वासिता गत्वा ज्ञातेः कुशलशंसनात् ॥१३०॥ कुलकम् । निजप्रवासवृत्तान्तः पृष्टया च तया रहः । वैजयन्तीपुरीभङ्गप्रभृतिः कथितो मम ॥१३१॥ एवमावेद्य देवाय गत्वा काञ्ची पुरी ततः । गन्धर्वदत्तामाराध्य क्षणमागम्यतामिह ॥१३२॥ तद् गन्तव्यं द्रुतं कार्यान्मया व्याघुटता पुनः । लेख्यं रूपं कुमारस्य मम विघ्नः क्वचिन्न चेत् ॥१३३॥ तदादिश दिशस्तस्या आनेयं वस्तु किञ्चन । नेयः सन्देशको वेति स्थितेऽवादीन्नृपात्मजः ॥१३४॥ खेचरेन्द्रसुतारूपे त्वया त्रैलोक्यदुर्लभे । ममोपनीते नैवास्ति काऽपि वस्त्वन्तरस्पृहा ॥१३५॥ न च कश्चन सन्देशयोग्यस्तत्र समस्ति मे । पुनस्त्वदर्शनायैव गाढमुत्कण्ठते मनः ॥१३६॥ तं च ताम्बूलवस्त्रायैः सम्मान्य पुनरभ्यधात् । वज कार्याय विस्मार्या गोष्ठीयं न कदाचन ॥१३७॥ अथार्पयत् कुमारेण लेखं सिंहलभूपः । काञ्च्यां मलयसुन्दर्या योग्यं तस्मै यियासवे ॥१३८॥ उदपतदथ नत्वा चित्रमायद्वितीयो वियति कलितलेखश्चित्रलेखातनूजः ।
करकमलनिलीनालेख्यलीलापटश्च स्वभवनमवनीन्दोरङ्गजन्मा जगाम ॥१३९॥ [इति श्रीतिलकमञ्जरीसारे] चित्रपटदर्शनो नाम तृतीयो विश्रामः॥
[इति तृतीयं प्रयाणकम् ।] १ स्वा । २ टी ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org |