________________
२६
श्री पल्लीपालवंशीयधनपालविरचितः
अधुना युज्यते रूपं तवैव लिखितुं मम । उत्सुकेन न तच्छक्यमौत्सुक्ये शृणु कारणम् ॥ ११३॥ अस्ति रत्नाढ्यवैताढ्यदक्षिणश्रेणिभूषणम् । चक्रवालोत्तरपदं नगरं रथनूपुरम् ॥ ११४ ॥ शस्त्रशास्त्रमहामन्त्रविद्यात्रयपवित्रितः । चक्रसेनाभिधस्तत्र चक्रवर्त्ती महाबलः ॥११५॥ एतस्य पत्रलेखायां महादेव्यामजायत । त्रिलोकीतिलकः कन्यारत्नं तिलकमञ्जरी ॥ ११६ ॥ बालभावेऽपि तां पुण्यप्रभावसुखसाधिताः । विद्याः सख्य इवासेदुर्मेदुरीभूतसौहृदाः ॥११७॥ अधुना यौवनारम्भमधुना मधुराकृतेः । जगन्नेत्रालिमालाभिः पीयमानं न हीयते ॥ ११८ ॥ लावण्यमधु यस्याः सा नव्या तिलकमञ्जरी । अत्र चित्रपटारामे ललन्ती किल कल्पिता ॥ ११९ ॥ इत्थं कुमार ! कैलाशशैलादिवनराजिषु । रमतेऽनुमता पित्रा सा विमानविहारिणी ॥ १२० ॥ परमीदृग्विहारेच्छाविच्छेदाशङ्किनी किमु ? ।
1
किं विद्यासाधनोपात्तत्रतप्रान्तानुपालिनी* ॥१२१॥ किञ्च पूर्वभवप्रेयः प्रेमस्थेमनियन्त्रिता । इयं स्वप्नेऽपि नाद्यापि पुरुषं कमपीच्छति ॥१२२॥ ध्यात्वाऽथ विद्या प्रज्ञप्ती विज्ञप्ता पत्रलेखया । देव्या सुतावरार्थिन्या स्वप्ने साऽपि समादिशत् ॥१२३॥ त्वत्पुत्र्या भविता भर्त्ता भूगोचरनृपाङ्गभूः । प्रातर्मन्मातरं पुत्रीधात्रीं देवी ततोऽवदत् ॥ १२४॥ चित्रलेखे दुहित्रेऽस्यै चित्राभ्यासापदेशतः । भूपालाङ्गभुवां विद्धरूपाण्यानीय दर्शय ॥ १२५॥ मन्माता तान तथानेतुं प्रैष्यान् प्रेष्य जगाद माम् । गन्धर्वक! तवाप्यन्यत् कृत्यमस्ति प्रयोजनम् ॥ १२६ ॥ १ स । * अन्त=completion, fufilment २ चा I
Jain Education International 2010_05
For Private & Personal Use Only
[ प्र०
www.jainelibrary.org