________________
तिलकमञ्जरीसारः । श्रयतामेष निःशेषनरेश्वरशिरोमणेः । श्रीमेघवाहनस्य श्रीप्रसादासादितः सुतः ॥९॥ द्वासप्ततिकलाधामा नामतो हरिवाहनः । दिदृक्षुश्चेत् त्वमेनं तद् दर्शय सौम्यदर्शनम् ॥१०॥ सोऽवोचदुचितं सौम्यो राजपुत्रस्त्वया पुनः । जल्पन्न्या तं कलावन्तं चित्रमाविःकृतं मम ॥१०॥ तदाविःकुरु तस्यापि पुरश्चित्रमिदं मम । स्वामनुप्राप्त एवाहमित्युदीर्यार्पयत् पटम् ॥१०२॥ निवेदयति सा यावदेवं तावदुपाययौ । दिव्याकृति कुमारस्य दृक्पथं पथिकद्वयम् ॥१०३॥ प्रावेशयत् तदादेशाद् द्वाःस्था तावध्वगावथ । नत्वा कुमारमासोनौ पुरस्ताद् दापितासने ॥१०४॥ तयोरेकस्तमालोक्य त्रैलोक्यललिताकृतिम् । तत्र चित्रपटे मग्नविलोचनमवोचत ॥१०५॥ विश्राम्यति पटाच्चित्ते किञ्चित् ते दर्शनोचितम् । कश्चिदालेख्यदोषो वा विदुधैवं विभाव्यते ॥१०६॥ कुमारेणानुशिष्योऽस्मि कलाकौशलशालिना । कृतिरात्मविशेषाय विशेषज्ञेषु दर्शिता ॥१०७॥ व्याजहार कुमारोऽपि कोटिमारोपिता त्वया । चित्रा चित्रकला कालिदासेन कविता यथा *॥१०८॥ एतस्यां हि यथोचित्यं वर्णानां विनिवेशनम् । रुचिरावर्तना कापि स्थानेऽलङ्कारकल्पना ॥१०९॥ किञ्चाक्रीडागिरौ क्रीडां तन्वन्तीं सरसस्तटे । असंख्यशाखिनि सखीराजितां राजकन्यकाम् ॥११०॥ लिखता चित्रविज्ञानं विचित्रं सूत्रितं त्वया । केवलं पुरुषालेख्यकौशलं न प्रकाशितम् ॥११॥ सोऽप्याख्यल्लिखिता कन्या पुरुषद्वेषिणी मया ।
पुंसो नारोपितं रूपमत्र चित्रपटे ततः ॥११२॥ • Note the poet's originality in the simile. ति. म..
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org