SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीपल्लीपालवंशीयधनपालविरचितः निःकामदस्मात् खे चक्रं खेचराणां विलोक्य च । तारकेण तरी स्मेरश्चैत्यान्तिकमनाययम् ॥८५।। ततस्तत्र प्रवेशाय यावद् द्वारं विभावये । तावदाश्मदुर्लक्ष्याकारणाकारकुट्टिमे ॥८६।। अपश्यं चित्रकस्तूरीपत्रभङ्गाङ्कितैर्मुखैः । कुर्वाणं कन्यकावृन्दं शतचन्द्र नभस्तलम् ॥८७॥ युग्मम् तन्मध्ये चातपत्रेण दर्शयन्ती सितद्युतिम् । विडम्बयन्ती डिण्डीरवल्लरीश्चलचामरैः ॥८८॥ कल्लोलयन्ती लावण्यसलिलैलवणाम्बुधिम् । उल्लासयन्ती ललितैः कटाक्षरमृतच्छटाः ॥८९|| अप्सरोभिः सहाम्भोधेः पुनर्लक्ष्मीरिवोद्गता । द्विरष्टवर्षदेशीया मयाऽदृश्यत कन्यका ॥९॥ इत्थं कथारसाक्षिप्तलोके समरकेतुना । कथ्यमाने स्ववृत्तान्ते प्रतीहारी व्यजिज्ञपत् ॥९१॥ कुमार ! कर्णपीयूषं चिरं पीतं कथारसात् । क्षणमीक्षणपीयूषमिदानी पीयतामिति ॥९२॥ ततश्चित्रपटं किञ्चिन्न्यञ्चद्वपुरुपानयत् । कुमारोऽपि तमुद्वेष्टय दृष्टवांश्चित्रपुत्रिकाम् ॥९॥ तारुण्यपादपानूपकन्यकारूपधारिणीम् । उदारवेषसंश्लेषविशेषसुभगाकृतिम् ॥९४॥ गृहीताङ्गमिवानङ्गवीरस्य विजयश्रियम् । विस्मितः सिंहलाधीशसुतादीनामदीदृशत् ॥९५॥ अभ्यधाच्च शुभे चित्रमिदमासादितं कुतः ? । इति पृष्टा प्रतीहारी व्याजहारावधार्यताम् ॥१६॥ कुमार! रममाणाऽस्मिन्नपश्यं पथिकद्वयम् । तयोरेकेन पृष्टाऽस्मि भदे ! कोऽयं नृपात्मजः ॥९॥ यस्याऽयं दृश्यते दृश्यवेषो युष्मादृशो जनः । वैदेशिकं विदित्वा तं ततः प्राञ्जलमालपम् ॥९८॥ १ स्म । २ था । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy