________________
तिलकमञ्जरीसारः । भेरीनादश्रवाद् यानपात्रेषु विधृतेषु च । पर्वतालोकरभसाल्लोकः शीघ्रमवातरत् ॥७१|| तदा तदद्रेर्वायव्यकोणाद् दिव्यो समाभवत् । मरुत्तरङ्गितः श्रोत्रसङ्गी सङ्गीतकध्वनिः ॥७२॥ ततस्तत्प्रभवालोकलोलचेताश्च तारकम् । आदिशं तां दिशं गन्तुं नावं प्रवणयेत्यहम् ॥७३।। सोऽप्युवाच श्रुतचरी गोतिरस्यां दिशीदृशी । मयाऽन्यैश्च परं ज्ञातुं प्रभवं कोऽपि न प्रभुः ॥७॥ अस्याद्रेः पक्षमेतं हि क्षमेत विषमेऽम्बुधौ । ग्रावग्राहमहावर्तेन तरीतुं तरीरपि ।।७।। तथापि स्थापितं देव ! चेतश्चेन्निश्चये त्वया । तद् गम्यते किमीशानामादेशे हि विमर्शनैः ॥७६॥ इत्युक्तेऽप्रेरयं नावं तेनेषुमिव धन्वना । तं दक्षिणाक्षिस्फुरितहस्तालम्बादनुध्वनिम् ॥७७॥ सोऽपि श्रावादिषूपायैस्तैस्तैरस्खलितां ततः । . प्रावर्त्तयन्निजां कीर्तिमङ्गिनीमिव मङ्गिनीम् * ॥७८॥ अनुकूलानिलात् तस्यां लडिताध्वनि स ध्वनिः । विरतोऽथ स्थिरीकृत्य तरिकां तारकोऽवदत् ॥७९॥ स्थितेऽध्वपिशुने ध्वाने नास्ति द्वेधाऽपि नौगतिः । त्रपयाऽहमपि द्वैधमवाग्वक्त्रस्ततोऽभवम् ॥८॥ अचिन्तयं च ही जातं लाघवं मे शिशोरिव । कौतुकादविमृश्यैव ध्वानमुद्दिश्य धावतः ॥८१॥ ततो दिव्यं श्रुतं गीतं गिराविति तदाशया । आकृष्टोऽङ्कमृगेणेव प्रत्यग्गिरिमगाद् विधुः ॥८२॥ अहो ! महाफलं कर्म कृतं नीतिविदाऽमुना । इतीव विजहासोच्र्जम्भारिककुभि प्रभा ॥८३॥ ततोऽहं विक्षिपन् दिक्षु चक्षुरद्राक्षमग्रतः ।
देवतायतनं रत्नरश्मिकर्बुरिताम्बरम् ॥८४॥ १ यान । * Betrothed. २ श ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org