________________
[प्र.
श्रीपल्लोपालवंशीयधनपालविरचितः तदेष युज्यते नेतुं स्वनावः कर्णधारताम् । प्रभूणां च कवीनां च यथौचित्यं पदार्पणम् ॥५७|| तस्मिन्निति वदत्येव कैवर्तेशः समेत्य सः । प्रगल्भमभ्यधानित्यप्रणयीव प्रणम्य माम् ॥५८॥ अयं कुमार ! नौवारः सङ्गराय विनिर्मितः । पराकाष्ठागतगुणप्रबन्धैरतिभासुरः ॥५९॥ पूर्णश्चित्रैः सचारित्रैः परोपकरणैरपि । अधिष्ठितस्त्वया तुल्यसंयोगप्रीतिमञ्चतु ॥६०॥ अहमप्यथ पाथोधेः पूजाकल्पे प्रकल्पिते । क्रमेण यानपात्राणि पवित्रयति राजके ॥६॥ तारकेण धृतारित्रां चित्रांशुकपताकिकाम् । नावं विजययात्राख्यां यात्रार्थमधिरूढवान् ॥६२॥ याम्यां सीमन्तयन्नाशामब्धिलङ्घनहेतुना । सेतुनेव ततो गन्तुं नौचक्रेण प्रचक्रमे ॥६३॥ उद्दीपितमदान् द्वीपभूपान् दुष्टद्विपानि । निरङ्कशप्रचारोऽपि दर्पमत्याजयं ततः ॥६४॥ उल्लङ्घय जलधिद्वोपान्' सुवेलं शैलमव्रजम् । तत्र न्यवेशयं सैन्यमन्येधुः प्रेरितश्चरैः ॥६५॥ चौर्यपल्लवितं पल्लीपतिं पर्वतकाह्वयम् । अगां विजेतुं सझामक्षमनौसैन्यसंयुतः ॥६६॥ युग्मम् । निर्जित्य शबरेशं तं शिबिराभिमुखोऽभवम् । अथात्रिभेट्टपुत्रो मां समयज्ञो व्यजिज्ञपत् ॥६॥ कुमार ! दृश्यते योऽयमनन्तमणिभासुरः । सानुमान् रत्नकूटोऽसौ जटाजूट इवेश्वरः ॥६८॥ भत्र पुण्यसरित्पूणे सुवर्णकपिशधुतौ । निर्गत्य नीरधेः स्थातुं युक्तं तव कलावतः ॥६९॥ यतः क्लान्तं बलं रात्रियामत्रितयजागरात् । इति श्रुत्वाऽस्मि विश्रान्त्यै सैन्यं तत्र समादिशम् ॥७॥ । २ त् । ३ ते ।
१
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org