SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ aj तिलकमञ्जरीसारः । गुरुणा चानुरागेण कृतचातुर्यसंस्तवा । हियं विधाय मुग्धाऽपि विदग्धेवेदमभ्यधात् ॥४३॥ त्वया पाणौ गृहीतेऽस्मिन् कुमार ! किमु शक्यते । विवशं संवरीतुं स्वं प्रयातुं वा गृहान्तरम् ॥४४॥ जातं निजं तवागारमिदानीमिदमेव मे । इत्युक्त्वा च नतमुखी पदाग्रेणाऽलिखद् भुवम् ॥ ४५ ॥ असावपि युवा तस्याः सम्भ्रमावस्थया तथा । अमृतस्यन्दशीतेन करस्पर्शेन तेन च ॥४६॥ उक्तिभङ्गया तथा चात्मसमर्पणसमर्थया । हृतचेताः समालिङ्गत् तामामीलितलोचनाम् ||४७॥ युग्मम् । गृहान्तरं च गन्तव्यमिति चेत् तन्वि ! निश्वयः । तत् किमेकेन गेहेन प्राणा अपि वसे तव ||४८॥ इत्युदीर्य परिग्राह्यं स्त्रीरत्नं दुष्कुलादपि । इति प्रमाणयन् पक्षमनपेक्ष्य निजान्वयम् ॥ ४९ ॥ साक्षीकृत्य क्षणे तत्र ज्वलन्तं मन्मथानलम् । पुनर्गृहीतपाणिस्तामकरोज्जीवितेश्वरीम् ॥५०॥ सांयात्रिकस्य कस्यापि बालिका जलकेतुना । यानभङ्गादवाप्ताऽसौ पालिता स्वेव पुत्रिका ॥ ५१ ॥ इत्याख्यातेऽपि तत्त्वज्ञैः प्रार्थितोऽपि सहागतैः । लज्जयैव निजं स्थानं न जगाम स कामुकः ॥५२॥ आस्थानोपस्थितं चैत देवस्तद्वृत्तविस्मितः । व्याजहार परीहासपेशलं चापलं प्रति ॥५३॥ जामातृप्रतिपत्त्या च वितीर्य बहुजीवनम् । विश्वनाविकतन्त्राणां तं त्रातारमसूत्रयत् ॥ ५४ ॥ तत्राधिपत्यं तेनाथ तन्वता सकलाः कलाः । कलिता नौप्रचारस्य स चायमवधार्यताम् ॥५५॥ स्पृशेन्नैवेषदप्येष वणिग्जातिसजन्मना । भयेन किल कैवर्त्तकुलसम्पर्कशङ्कया ॥५६॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002611
Book TitleTilakmanjarisara
Original Sutra AuthorPallipal Dhanpal
AuthorN M Kansara
PublisherL D Indology Ahmedabad
Publication Year1969
Total Pages146
LanguageSanskrit, English
ClassificationBook_Devnagari & Literature
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy