________________
श्रीपल्लीपालवंशीयधनपालविरचितः सोऽप्याह केवलं नैषां धीवराणां विलक्षणः । अन्येषामपि तेनास्य श्रूयतां चरितं नवम् ॥२९।। सुवर्णद्वीपमध्येऽस्ति पुरै मणिपुराभिधम् । तत्र सांयात्रिकः पात्रं श्रीणां वैश्रवणावयः ॥३०॥ प्रियाऽस्य वसुदत्ताऽभूद् दारकस्तारकस्तयोः । आरूढो यौवनं यानपात्रं चैष क्रमागतम् ॥३१॥ आगत्याऽस्मत्पुरी पारेऽकूपारं तस्य तस्थुषः । निर्यामेन सहाजर्य सञ्जज्ञे जलकेतुना ॥३२॥ . धीवराधिपतेस्तस्य कदाचिन्नवयौवना । शापभ्रष्टेव दिव्यत्री तनया प्रियदर्शना ।।३३।। . हारमादाय तद्गेहमागमत् पितुराज्ञया । दृष्टश्च स तया रूपदर्शनोद्भूतरागया ॥३४॥ मर्पितोपायना चास्मै क्षणं स्थित्वा विसंस्थुलम् । कृतोपचारा तेनाथ जगाम निजमन्दिरम् ॥३५॥ तया च बालया नित्यं तदालोकनलोलया । आरेभे छअभिस्तैस्तै रेहिरेयाहिराक्रिया ॥३६॥ एकदा च सदावासविलासवलभीतले । रममाणां समं सख्या सम[]यातामियाय सः ॥३७॥ तदर्शनवशोल्लासिसाध्वसा सा तु सत्वरम् । व्रजन्ती स्खलिता तत्र पदैः कम्पविशृङ्खलैः ॥३८॥ स्वलन्त्याश्च समागत्य द्रुतं सोपानसन्निधौ । तेनावलम्बितस्तस्या दक्षिणः पाणिपल्लवः ॥३९॥ ततः सलीलमालाऽपि सस्मितेन नताङ्गि ! किम् । इदं समेऽपि स्खलनं तदलं संभ्रमेण ते ॥४०॥ आत्मानं संवृणु क्षोभगलद्वक्षोजवाससम् । विहाय विह्वलीभावं सम्भावय निजं गृहम् ॥४१॥ साऽपि तत्पाणिसंश्लेषाद् विशेषाकृष्टधन्वना । कृतसाहायकेनेव कामेन ध्वस्तसाध्वप्ता ॥४२॥
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org