________________
३
]
तिलकमञ्जरीसारः।.. वहिना कृतसांनिध्यः स्थितश्चेहाग्निसाक्षिकम् । प्राप्तये मम कर्ताऽसि पाणिग्रहणमङ्गलम् ॥१५॥ युग्मम् । अर्थोऽपरोऽपि गुरुभिर्मामदत्तामधर्मतः । इच्छन् नारकतां प्राप्य समीपज्वलितानलः ॥१६॥ द्रुमाणामसिपत्राणां स्थाता त्वं गहने द्रुतम् । इति शापात्मको यस्तु केवलं गोपनाय सः ॥१७॥ इत्युक्ते प्रतिभां दृष्ट्वा हारिणी हारिवाहनाम् ।। जहृषुः सुहृदः सर्वे विना समरकेतुना ॥१८॥ ततश्चिन्तातमःस्पर्शदुर्देर्शमुखचन्द्रके । चन्द्रकेतुसुतेऽवोचत् कोशलेश्वरनन्दनः ॥१९॥ यत् ते हर्षश्रियं खेदः सखे ! दस्युरिवाहरत् । तन्न त्वमपि संस्पृष्टो भावैरेभिः कदाचन ॥२०॥ प्रमृज्याश्रूणि सोऽप्याह कुमार ! किमु कथ्यते ? । त्वया हि मन्मनोवासादिवाऽसादि ममाशयः ॥२१॥ अबुद्ध शुद्धधीः सर्व मन्ये सामान्यतो भवान् । आज्ञां प्राप्य तथाऽप्येष विशेषाय सखे ! ब्रुवे ॥२२॥ अनङ्गरङ्गशालेव रङ्गशालेति विश्रुता । सिंहलेषु पुरी तत्र तातः प्रख्यात एव मे ॥२३॥ नवीनयौवनं यौवराज्ये प्रागभिषिच्य माम् । दुष्टद्वीपावनीपालजयाय प्रजिघाय सः ॥२४॥ ततो जयगजारूढ़ः प्रौढराजन्यराजितः । मङ्गलोज्जागरां पश्यन् नगरी निरगामहम् ॥२५॥ कैश्चित् प्रयाणैः ग्रामीणविलोकितबलाऽऽगतिः । आगत्य नीरधेस्तीरे शिबिरं सैन्न्यवेशयम् ॥२६॥ कृताकृतं च तत्रस्थो यावन्नावां विभावये । तावन्नाविकमद्राक्षमायान्तं धीवरावृतम् ॥२७॥ कोऽयं सुभगया मूर्त्या कैवर्तेषु विलक्षणः ।
इति नौसाधनाध्यक्षमप्राक्षं यक्षपालितम् ॥२८॥ १ वा । २ द । ३ नि । ४ धि ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org